2023-02-20 00:54:12 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
-
अन्वाहितम् – यदेकस्य हस्ते निहितं द्रव्यं तेनापि अनु पश्चादन्यहस्ते
स्वामिने देहीति निहितं तदन्वाहितम् ( मिताक्षरा अ० २ श्लो० ६७ ) ।
--
अन्वितामिधानवादः - शक्तिज्ञानाविषयस्य शाब्दबोधाविषयत्वनियम इति
वाद: ( कृष्ण ० शक्ति० ) । भट्टमते च इतरान्वितघटो घटपदशक्य
येतादृशमेव शक्तिज्ञानं शाब्दबोधप्रयोजकम् । एवं च शाब्दबोधे पदा-
र्थसंसर्गस्यापि पदशक्यत्वमङ्गीकुर्वन्ति ( ग० शक्ति० ५ ) । एवमेत-
न्मते वाक्येपि शक्तिं स्वीकुर्वन्ति इति विज्ञेयम् । इदं च प्राभाकरमतम्
न तु भट्टमतमिति बहवो प्रन्थकारा वदन्ति ।
अन्वीक्षा– प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणम् । यथा आन्वीक्षिकी न्याय-
विद्येत्यादावन्वीक्षा ( वात्स्या० ११ १/१ ) । अत्र व्युत्पत्तिः श्रवणात्
अनु ( पश्चात् ) ईक्षा अन्वीक्षा उन्नयनम् ( गौ० दृ० १११।१ ) ।
अपकर्ष: १ विद्यमानधर्मापचयः । तथा च साध्यसाधनान्यतरस्याभावप्र-
सब्जनम् । यथा अपकर्षसमो जातिरित्यादौ ( गौ० वृ० ५/११४ ) । २
गुणनिष्ठजातिविशेषः । यथा महत्त्वत्वं चापकर्षानाश्रय परिमाणत्वम् इत्यत्रा-
पकर्ष: ( राम० १/५८ ) । ३ उचितधर्मापेक्षातो हीनता । यथा-
उत्कर्ष चापकर्षं च मनुष्येष्विह जन्मतः इत्यादौ ( मनु० १०४२) ।
४ स्वकर्तव्यकालात्पूर्व काले करणम् । यथा-मरणोत्तरं मृताहे मासि
मासि कर्तव्यानां मृताहनिमित्तकमासिकादीनां द्वादशाहेषु एकाहेषु च
कर्तव्यस्वोक्तेः सर्वापकर्षः । तदुक्तम्- मुख्यं श्राद्धं मासि मासि अपर्या-
तावृतुं प्रति । द्वादशाहेन वा कुर्यादेकाहे द्वादशेष वा इति
( स्मृतिः ) । ५ परसूत्रपदाना मन्वयार्थ पूर्वसूत्र आकर्षणमिति शाधारका
वदन्ति ( वाच० ) ।
C
अपकर्षसमः – ( जाति: ) [ क ] साध्ये धर्माभावं दृष्टान्तसतोः
पकर्षसमः । लोष्टः खलु क्रियावान विमुर्दृष्टः काममात्मापि
भुरस्तु । विपर्यये वा विशेषो वक्तव्य इति ( वात्स्या० ५/१) ।
[ ख ] पक्षदृष्टान्तान्यतरस्मिन्व्याप्तिमपुरस्कृय सहचरितधर्माभावेन हेतु-
ज्ञानवि-