2023-02-20 00:57:30 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
सहावस्थायित्वम् – एकदेशै कक्षणाषच्छिन्नसामानाधिकरण्यम् । यथा घट-
पटयोर्ज्ञानेच्छयोध सहावस्थायित्वम् ।
सहितत्वम् - साहित्यम् ।
सहृदयः - १ प्रशस्तचित्तः । यथा व्यासगौतमकणादादयः सहृदयाः ।
२ आलंकारिकास्तु काव्यार्थभावनाधीनपरिपक्कबुद्धिः । यथा काव्यं
यथायोगं कवेः सहृदयस्य च यश आनन्दादि करोति ( काव्यप्र ०
१। २ ) इत्यादौ परिष्कुर्वन्त्यर्थान् सहृदयधुरीणाः कतिपये ( रसगङ्गाधरः )
इत्यादौ च सहृदयशब्दस्यार्थ इत्याहुः ।
सांकर्यम् – १ ( दोष: ) संकरः । २ एकत्र मेलनम् इति पदार्थविज्ञानवन्त
आहुः ।
सांख्यम् – १ सम्यग्दर्शनम् । यथा एषा तेभिहिता सांख्ये बुद्धियोंगे
विमां शृणु ( गीता० २१३९) इत्यादौ सांख्यशब्दस्यार्थः । तदुक्तम्
शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते (व्यासस्मृतिः) ( गीता मध्वमा ०
अ० २ श्लो० ३९ ) इति । २ [क] सम्यग्दर्शन प्रतिपादकं शास्त्रम् ।
यथा देवहूतीं प्रति भगवतोपदिष्टं सांख्यदर्शनम् (भक्तियोगः ) (भाग ०
स्क० ३ अ० २६-२७ ) । अत्रार्थे व्युत्पत्ति: संख्यायते इति संख्या
सम्यग्ज्ञानम् । तत्संबन्धि सख्यम् ( अण् ) इति । एतत्सांख्यस्य प्रवर्तको
देवहूतीपुत्र: श्रीभगवदवतारः कपिल: श्रीमद्भागवतादी प्रसिद्धः । तदु-
क्तम् कपिलस्तस्वसंख्याता भगवानात्ममायया । जातः स्वयमजः साक्षा-
दात्मप्रज्ञप्तये नृणाम् ॥ ( भाग० स्क० ३ अ० २५ श्लो० १ ) इति ।
अत्रोक्तम् पञ्चमः कपिलो नाम सिद्धेशः कालविलुतम् । प्रोवाचासुरये
सांख्यतत्त्वग्रामवि निर्णयम् ॥ ( भाग० स्क० १ अ० ३ ) इति । अन्यच्च
सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते ( मात्स्यपु० अ० ३ ) इति ।
[ख] सांख्योक्तो योगः । भगवदुक्तो योगस्तु योग आध्यात्मिकः
पुंसामतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य वै ॥
( भाग० ३।२५।१३ ) इत्यादिना ग्रन्थेनोक्त इति विज्ञेयम् । एवम्
पतञ्जलिप्रणीतस्य योगशास्त्र स्यै काध्यायात्मकपादचतुष्टयस्यापि सांख्य-
१२४ न्या० को•