2023-02-20 00:57:30 by ambuda-bot
This page has not been fully proofread.
९८४
न्यायकोशः ।
इति फलितोर्थः ( ग० व्यु० का० ३ पृ० ८९ ) । अयमर्थः । पुत्रेण
सहागतः पिता इत्यादौ पितुः क्रियासंबन्धः साक्षाच्छन्देनोच्यते पुत्रस्य
तु प्रतीयमानः इति पुत्रस्याप्राधान्यम् इति वैयाकरणा आहुः (काशिका
२।३।१९ ) । [घ ] तत्क्रियाकालीनत्वम् । यथा शिष्येण सहागतो
गुरुः इत्यादौ । अत्र कर्तृत्वं तृतीयार्थः । तस्य सहशब्दार्थैकदेश क्रियाया-
मन्वयः । सहशब्दार्थस्य तादृशकालीनत्वस्य च धात्वर्येन्वयः । इत्थं च
शिष्यकर्तृकागमन काली नागमनकर्ता गुरुः इति बोध: ( म० प्र०
पृ० ६ ) । [ ङ ] समभिव्याहृतपदोपस्थाप्यो यत्किचिद्धर्मः । यथा
शिष्येण सह गुरुर्ब्राह्मणः पुत्रेण सह पिता सुन्दर: इत्यादौ सहशब्द-
स्वार्थ: । अत्र सहशब्दार्थो ब्राह्मण्यसौन्दर्यादि । तस्य समानकालीनत्व-
संबन्धेन ब्राह्मण सुन्दरादिपदार्यैकदेशेन्वयः । परे तु सहार्थ: साहित्यम्
एकधर्मान्वयित्वरूपम् । तृतीयार्थो वृत्तित्वम् संख्यामात्रं वा । तथा च
शिष्यसाहित्यवान् गुरुर्ब्राह्मणः इत्यादिबोधः इत्याहु: ( काव्या० पृ०८) ।
२ शाब्दिकास्तु सह विद्यमानत्वम् । यथा सहैव दशभिः पुत्रैर्भारं
वहति गर्दमी इत्यादौ सहशब्दार्थ इत्याहुः ( ल० म० १ । ३ साक-
ध्यम् । ४ सादृश्यम् । ५ यौगपद्यम् ।
(० ) । ८ सामर्थ्यम् ( शब्दमा० ) ।
६ समृद्धिः । ७ संबन्ध:
सहकार :- १ सहकर्मकरणम् ( सहकारित्वम् ) । २ सुगन्धिराम्रः इति
4
काव्यज्ञेश आहुः ( अमरः २ । ४ । ३३ ) ।
सहकारित्वम् - खभिन्नत्वे सति स्वकार्यकारित्वम् । यथा दण्डस्य मृत्तिका
कार्यघटकारित्वम् ।
-
-
सहचरितत्वम् - १ सामानाधिकरण्यम् । २ कचित् व्याप्तिमत्त्वम् । यथा
साध्येनासहचरितो व्याप्यत्वासिद्धः इत्यादौ सहचरितत्वशब्दार्थो व्याप्तिः ।
सहचारः – सामानाधिकरण्यम् ( दीधि ० २ ) ।
सहायता – अन्यकर्तृकक्रियायामप्राधान्येनान्वयित्वम् । यथा देवदत्तो यज्ञ-
दत्तेन सह तण्डुलं पचति इत्यादौ यज्ञदत्तस्य पचनक्रियायां सहायता ।