2023-02-20 00:57:30 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
पृ० ९१ ) ( ल० म०) । अथ वा साहित्यं सहभावः । स च सामाना-
धिकरण्यम् । यथा पढया सहाग्निमादध्यात् घटेन सह पटवहम् इत्यादौ
सहशब्दार्थः । अत्र पत्नीकर्तृकस्याग्याधानस्यालौकिकत्वेन तत्समान-
कालीनत्वस्य प्रापयितुमशक्यत्वात् सामानाधिकरण्यरूपसहभावमात्रं
सहशब्दार्थः स्वीकृत: ( श० प्र० लो० ९४ टी० पृ० १२१ ) ।
[ ख ] समभिव्याहृतपदोपस्थाप्यक्रियाकालः । तस्य क्रियान्वयिनि
नामार्थ एवान्वयः । तादृशकालविशिष्टे नामार्थे क्रियान्वये च क्रियाया-
मपि तादृशकालावच्छिन्नत्वं भासते । उद्देश्यतावच्छेदकावच्छेदेन विधेया-
न्वयस्य व्युत्पत्तिसिद्धत्वात् । अतः क्रियाद्वयसमानकालीनत्वलामः
(ग० व्यु० कार० ३१०९०) इति । एवम् आलापाद्द्वात्रसंस्पर्शानिश्वा-
सात्सहभोजनात् ( स्मृतिः) इत्यत्र एकपङ्किः सहशब्दार्थः । कचिच्च याजनं
योनिसंबन्धं स्वाध्यायसहभोजनम् । सद्यः पतति कुर्वाणः पतितेन न
संशयः ॥ ( स्मृतिः ) इत्यादौ एकदैकपात्रभोजनाद्यपि सहार्थो ज्ञेयः ।
अत्रेयं व्यवस्था । सहशब्दार्थस्तत्क्रियाकालः । स च क्वचित् तत्क्रिया-
न्वयिप्रथमान्तपदार्थेन्वेति । कचिञ्च समभिव्याहृतक्रियायाम् । यथा सपुत्र
आगच्छति इत्यस्य पुत्रेण सहागच्छति यः इति विग्रहात् प्रथमान्तान्य-
पदार्थ एव पुत्रागमनकालान्वयः न तु क्रियायाम् । पुत्रेण सह ना-
गच्छति इत्यादौ च क्रियायामेव तादृशसहार्थान्वयः इति पुत्रागमन-
काली नागमनकर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयत इति । भारमनुहन्तं
पुत्रमनूद्वहन्त्यामपि गर्दम्यां सहैव दशभिः पुत्रैर्भारं वहति गर्दमी इत्यादौ
सह वर्तमाना इत्यध्याहाराद्वर्तमानत्वक्रियामादायैव साहित्यबोध इति
वदन्ति ( ग० व्यु० कार० ३५० ९१ ) । [ग ] कचिच किया-
समानकालीनक्रिया । यथा पुत्रैः सहागतः पिता इत्यादौ सहशब्दार्थः ।
अत्र क्रियायाः कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः । तादृशसंबन्धेन
तद्विशिष्टे च आगतः आगच्छति इत्यादिपदोपस्थाप्यागमनकर्तृत्वादीनाम-
न्वये न व्युत्पत्तिविरोध: । विधेयस्योद्देश्यतावच्छेदकप्रकाराभेदविरहात्
इति । अत्र गौणक्रियान्वयिनि तृतीया सहार्थयोगे सहयुक्तेप्रधाने
(पाणि० २।३।१९) इत्यनेन । साहित्यप्रतियोगिवाचकपदात् तृतीया
।