2023-02-20 00:57:29 by ambuda-bot
This page has not been fully proofread.
९८२
न्यायकोशः ।
णेन व्यापकत्वस्याव्यभिचारितत्वस्य वा असाधारणेन सामानाधिकरण्यस्य
अनुपसंहारिणा च व्यतिरेकव्याप्तेर्ग्रहस्य प्रतिबन्धात् साधारणादौ लक्षण-
समन्वयः ( दीधि ० २ पृ० २०३ ) ।
सव्यम् - १ वामभागः ( अमरः ) । यथा यत्सव्यं पाणिं पादौ प्रोक्षति
शिरश्चक्षुषी श्रोत्रे हृदयमालभ्य (श्रुतिः ) इत्यादौ बामशब्दस्यार्थः ।
२ प्रतिकूलम् । ३ विष्णु: ( शब्दमा० )।
सशुकः- आस्तिकः ( मिताक्षरा अ० २ श्लो० ११२ ) ।
सह – ( अव्ययम् ) १ [ क ] साहित्यम् । तच्च स्वान्वयितत्तत्कर्तृत्वादि-
कारकावच्छिन्नायाः समानकर्तृकायाः समभिव्याहृतक्रियायाः समान-
कालीनत्वम् । यथा पुत्रेण सहागतः सूपेन सार्धं भुक्तः चक्रेण साकं
दण्डेन जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहाद्यव्ययार्थः
साहित्यम् । पुत्रेणेत्यत्र सहार्यैकदेशे कर्तृत्वादिकारके स्वप्रकृत्यर्थस्या-
धेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिकर्तृताकगतिकालीनगतिकर्तृता-
वान् इत्याकारो बोधः । सूपेनेत्यत्र सूपनिष्ठ कर्मता कमोजनकालीन-
भोजनकर्मतावान् ओदनः इति बोधः । चकेणेत्यत्र चक्रनिष्ठकरणता-
कोत्पत्तिकालीन दण्डनिष्ठ करणताकोत्पत्तिमान् घटः इति बोधः । पुत्रेण
सममित्यत्र पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्या-
कारो बोधः । अत्रेदं विज्ञेयम् । पटः पटत्वेन सह भासते इत्यादौ
पटत्वनिष्ठविषयतायाः समानकालीनत्वमिव
समानकालीनत्वमिव समानप्रतियोगिकत्वमपि
सहशब्दार्थोङ्गीकर्तव्यः । विभिन्नज्ञानीय विषयतायां तादृशाप्रयोगात् (श०
प्र० श्लो० ९४ टी० पृ० १२० ) इति । इदं च बोध्यम् । तुल्य-
यदेकक्रियान्वयित्वं साहित्यम् इति प्रवादस्यापि एककारकान्वयित्वेन
तुल्ययोरेकजातीयक्रिययोरन्वयित्वं समानकालीनत्वम् इत्यत्र तारपर्यम्
( श० प्र० को० ९४ टी० पृ० ११९) । भारमनुद्वहन्तं पुत्रमनू-
द्वहन्त्यामपि गर्दम्यां एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव
दशमिः पुत्रैर्भारं वदति गर्दमी ॥ इत्यादौ सह बर्तमाना इत्यभ्याहारात्
वर्तमानत्वक्रियामादायैव साहित्यबोधः इति वदन्ति ( ग० व्यु० का० ३
-