This page has not been fully proofread.

न्यायकोशः ।
 
९८१
 
विशिष्टत्वेन गृहीतस्य धर्मस्य धर्मिवृत्तिताज्ञानं साध्यसंदेहजनकम् तद्वत्त्वम्
इति । पर्यवसितार्थस्तु यत्किंचिरसंशयजनकतावच्छेदकवैशिष्ट्यघटक-
विशेष्यतानिरूपितप्रकारतापर्यायधिकरणधर्मवत्वम् ( ग० सव्य० )
इति । इदं च कोटिद्वयसहचरितत्वादिना ज्ञातस्योर्ध्वत्वा देरूर्ध्वत्वत्वादिना
घर्मिणि ज्ञानमेव संदेहजनकम् न तु तदानीं साहचर्यादिज्ञानमपेक्ष्यते
इति मतमभिप्रेत्योक्तम् इति विज्ञेयम् ( दीधि ० २ सव्य० पृ० १९०) ।
तच सव्यभिचारित्वं साधारणत्वादित्रितयम् ( म० प्र० २ पृ० २५ )
( चि० २ सव्य० पृ० ८५ ) । अत्र त्रितयं तु साधारणत्वम् असा-
धारणत्वम् अनुपसंहारित्वं चेति ज्ञेयम् । अथ वा विरुद्धान्यपक्षवृत्तिवे
सत्यनुमिति विरोधिसंबन्धाव्यावृत्तिः सव्यभिचारत्वम् ( चि० २ सव्य ०
१० ८५ ) । यथा शब्दो नित्यः शब्दत्वात् इत्यादौ साध्यव्यापकी-
भूताभावप्रतियोगित्वरूपासाधारण्यादि । विरुद्धान्येत्यादिदलद्वयस्य निष्क-
टार्थस्तु यद्धर्मिवृत्तित्वं हेतोर्ज्ञायते तत्रैवानुमिति विरोधि यद्रूपं तद्वम्
इति ( दीधि० २ सव्य० पृ० १९२ ) । यद्वा साध्यवन्मात्रवृत्यन्यत्वे
सति साध्याभाववन्मात्रवृरयन्यत्वम् ( चि० २ सव्य० पृ० ८६ ) ।
केचित्तु साध्यसंदेहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वे सति
हेत्वभिमतत्वं सव्यभिचारत्वम् इत्याशशङ्किरे । तदर्थस्तु साध्यसंदेह-
जनककोटिद्वयोपस्थितिजनकपक्षधर्मताज्ञानविषयत्वम् । धर्मिणि यद्रूपा-
वच्छिन्नषत्ताज्ञानं साध्यसंदेहजनकम् तद्रूपावच्छिन्नत्वम् । तच्च रूपं
साधारणत्वादि ( दीधि ० २ सव्य० पृ० १८५ ) इति । साधारणः
अन्वयेन असाधारणः व्यतिरेकेण अनुपसंहारी पक्ष एवोभयसाहचर्येण
कोटिद्वयोपस्थापकः ( चि० सव्य० पृ० ८४ ) । दीधितिकृतस्तु

विशिष्टसाध्यसाधनग्रहाविरोधिनो ज्ञानस्य विषयतया व्याप्तिग्रहविरोधि-
तावच्छेदकं रूपम् । तच्च रूपं साधारणत्वम् असाधारणत्वम् अनुप-
संहारित्वं च इति प्राहुः । व्याप्तिश्चान्वयतो व्यतिरेकतश्च नानारूपा ।
प्रातिस्विकरूपेणोपादाय ताबदवगाही ग्रहो वाच्यः । साभ्यसाधनयोर-
प्रसिद्धेरसिद्धिभेदस्य वारणाय अविरोधिनः इत्यन्तम् । व्याप्तिप्रहप्रति
बन्धलक्षणैकप्रयोजनकत्वेन साधारणादीनामेकहेत्वाभासत्वम् । साधार-