2023-02-20 00:57:29 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
(वाक्य० २ पृ० १६) । साध्यतावच्छेदकनिष्ठहेतुसमानाधिकरणाभाव-
प्रतियोगिता बच्छेदकत्वादिरूपो वा ( ग० २ हेत्वा० सा० )। असाधा-
रणस्थले साध्यव्यापकी भूताभावप्रतियोगित्वम् । अनुपसंहारिस्थले तु अत्य-
न्ताभावाप्रतियोगिसाध्यकत्वादि व्यभिचारः इति । सव्यभिचारत्वं च सा-
धारण असाधारण अनुपसंहारि एतदन्यतमत्वम् (मु० २ पृ० १५९ )
( नील० २१० २५) ( न्या० बो० २ पृ० १७) । व्यभिचार
एकत्राव्यवस्था । सह व्यभिचारेण वर्तत इति सव्यभिचारः । निदर्शनम्
नित्यः शब्दः अस्पर्शत्वात् । स्पर्शवान् कुम्भः अनित्यो दृष्टः । न च
तथा स्पर्शवान् शब्दः । तस्मादस्पर्शत्वान्नित्यः शब्द इति । दृष्टान्ते
स्पर्शवत्त्वमनित्यत्वं च धर्मो न साध्यसाधनभूतौ दृश्येते । स्पर्शवांश्चाणु-
र्नित्यश्चेति । आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः
इति । अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति अस्पर्शा बुद्धिरनित्या चेति ।
एवं द्विविधेपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणा-
भावादहेतुरिति (गौ वात्स्या० ११२५) । सव्यभिचारपदं साधारणमात्रे
प्रयुञ्जतीदानींतनाः (दीधि० सव्य० ) । शिष्टं विभागादिकं तु अनैका-
न्तिकशब्दव्याख्यानावसरे संपादितम् इति विरम्यते । सव्यभिचारत्वं च
हेतुदोषः। तच्च साध्यसंदेहजनको भय कोव्यपस्थापकतावच्छेद करूपवत्वम् ।
अत्रायमर्थः । उभयकोटी साध्यतदभावौ । तदुपस्थापकतावच्छेदकं च
रूपं साधारणत्वादित्रितयम् । तज्ज्ञाने सति पक्षः साध्यवान वा इति
संशय उदेति इति । अथ वा यथाकथंचित् कोटिद्वयोपस्थितिः ( साध्य-
तदभाव एतहूयोपस्थितिः ) स्मृत्यनुभवसाधारणी संदेहजननी । नियामकं
तु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् । अत एव धारावाही संदेहः इति
मते धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूपविशिष्ट (धर्मवत्ता) ज्ञानं साध्य-
संदेहजनकम् तद्रूपवस्वम् । पर्यवसितार्थस्तु तद्धर्मपर्याप्तधर्मिताबच्छेदक-
ताकयत्किचित्संशयनिरूपितायां जनकतायामवच्छेदकीभूता या सद्धर्म-
निष्ठधर्मितावच्छेदकतानिरूपकप्रकारता तन्निरूपितावच्छेदकतापर्याय-
धिकरणधर्मवत्वम् (ग० सव्य० ) इति । इदं च साध्यतदभावसाह-
चर्यावच्छिन्नकारणतामतमङ्गीकव्योक्तम् इति विज्ञेयम् । यद्वा पद्रूप-
९८०