2023-02-20 00:57:29 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
इति । ( ४ )
यथा विशिष्टः
जाति विकल्पको यथा गौः इति । ( ५ ) विशेषविकल्पको
परमाणुः इति । ( ६ ) समवायविकल्पको यथा पट-
समवायिनस्तन्तवः इति । (७) नामविकल्पको यथा देवदत्तः इति ।
(८) अभावविकल्पको यथा घटाभाववद्भुतलम् इति इत्याहुः ( प्र०
प० पृ० ११ ) । [घ ] मायावादिवेदान्तिनस्तु ज्ञातृज्ञेयमेदादिसहितं
ज्ञानं सविकल्पकम् इत्याहुः । [ङ ] योगशास्त्रज्ञास्तु संप्रज्ञातारूयः
समाधिविशेष इत्याहुः । अत्र सौगताः कीर्तिदिङ्गागादयो नास्तिकास्तु
सविकल्पकं न प्रत्यक्षम् न च प्रमाणम् । तस्य घटत्वादिरूपालीको-
परक्तत्वाद्वन्ध्या पुत्रज्ञानवत् । निर्विकल्पकं तु स्वलक्षणवस्तूपरतत्वात्स्या-
देव प्रत्यक्षम् प्रमाणं च इत्याहुः (वै० उ० ८ । १ । २ ) ( सि० च० १
पृ० २२ ) । तेषां सौगतानामयमाशयः । सविकल्पकं हि न प्रमाणम् ।
तथा हि । अभिलापसंसर्ग योग्यप्रतिभासं हि तत् । न ह्यभिलापेन नाम्ना
संभवत्यर्थस्य संबन्धः । येन घटः इति पटः इति वा नामानुरञ्जितः
प्रत्यय: स्यात् । न च जात्यादि परमार्थसत् । येन तद्वैशिष्ट्यं विषयेषु
इन्द्रियेण गृह्येत । न च सतः स्वलक्षणस्यासता संबन्धः संभवति । न
चासदिन्द्रियगोचरः । तस्मात् इन्द्रियेणालोचनं जन्यते । आलोचन-
महिम्ना च सविकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्तयत् प्रत्यक्षम् इति
प्रमाणम् इति चोच्यते ( वै० उ० ८।११२ १० ५८३ ) इति ।
सविचारः – ( समाधिः ) यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषय-
मालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः ( सर्व० सं०
पृ० ३५७ पात० ) ।
सवितर्क: – ( समाधिः ) यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय
पूर्वापरानुसंधानेन शब्दार्थोल्लेख्य संमेदेन च भावना प्रवर्तते स समाधिः
सवितर्कः ( सर्व० सं० पृ० ३५६ पात० ) ।
●
सव्यभिचारः - ( हेत्वाभास: दुष्टहेतुः ) अनैकान्तिकः सव्यभिचारः
-
( गौ० १।२।५ ) । अत्र व्युत्पत्तिः व्यभिचारेण सहितः सव्यभिचारः
इति । साधारणस्थले व्यभिचारच हेतुनिष्ठसाभ्याभाववद्वृत्तित्वादिरूपः