2023-02-20 00:57:29 by ambuda-bot
This page has not been fully proofread.
९७८
न्यायकोशः ।
म्यु० पृ० ९६ ) । [ ख ] प्रावस्तु व्यापकत्वावच्छिन्नमित्याहुः
( दि० १ पृ० १७९ ) । अत्रेदमवधेयम् । योगसिद्ध्यधिकरणे हि यः
पुत्रकामो यः पशुकाम: ( श्रुतिः ) इत्यादिना यज्ञऋतूनुपक्रम्य एकस्मै
बा कामायान्ये यज्ञकतव आह्नियन्ते सर्वेभ्यो दर्शपूर्णमासौ इत्याम्ना-
तम् । तत्र सर्वेभ्यो दर्शपूर्णमासौ ( कर्तव्यौ) इत्यादौ सर्वान्तर्गत-
घटोद्देशेन दर्शपूर्णमासाद्यसंभवेन सर्वशब्दस्य संकोचः प्रकृतनिरपे-
क्षपुत्रादित चत्फलपरत्वरूपः कार्यः इति । [ ग ] बुद्धिविषयो यावत्वा-
वच्छिन्नः समूहः सर्वपदार्थः इति शाब्दिका बदन्ति । [ घ ] संपूर्णम्
सकलं च इति काव्यज्ञा आहुः । २ वेदान्तिनस्तु विष्णुः इत्याहुः ।
-
तत्रोक्तम् असतश्च सतश्चैव सर्वस्य प्रभवाप्ययौ । सर्वस्य सर्वदा ज्ञाना-
त्सर्वमेतं प्रचक्षते ॥ ( विष्णुपु० ) इति ।
सविकल्पकम् – ( प्रत्यक्षम् ) [ क ] विशिष्टग्रहणम् । [ ख ] वैशिष्ट्या-
बगाहि सप्रकारकं वा ज्ञानम् ( न्या० म० १० ४ ) ( त० सं० ) ।
यथा डित्थोयम् ब्राह्मणोयम् श्यामोयम् पाचकोयम् इति प्रत्यक्षज्ञानम्
( त० सं० ) । अत्र वैशिष्ट्यावगाहि इत्यस्य नामजात्यादिविशेषण विशेष्य
संबन्धाबगाहि ज्ञानमित्यर्थ: ( त० दी० ११० १८) ( त० कौ० ) ।
सप्रकारकमित्यस्य किंचिन्निष्ठप्रकारताशालि ज्ञानम् इत्यर्थः ( त०
प्र० १) । सविकल्पकमित्यत्र विकल्पः प्रकारता । तथा च
तल्लक्षणं प्रकारतानिरूपकज्ञानत्वम् इति । अयं भावः । विषयताया
ज्ञान निरूपितत्वा ज्ज्ञानस्य च विषयता निरूपकत्वेन प्रकारतानिरूपक-
ज्ञानत्वं तल्लक्षणम् । एबम् विशेष्यता निरूपकज्ञानत्वम् संसर्गतानिरूपक-
ज्ञानत्वम् इत्यपि लक्षणानि संभवन्ति । निर्विकल्पके तु अतिरिक्ता
तुरीया विषयता स्वीक्रियते । त्रिविधविषयतामध्य एकापि तत्र नास्ति
( न्या० बो० १ पृ० ११ ) ( वाक्य० १ पृ० १२ ) ( नील० १
पृ० १८ ) । [ग] ] माध्ववेदान्तिनस्तु विशिष्टाकारगोचरं प्रत्यक्षम् ।
तदष्टविधम् तत्र ( १ ) द्रव्यविकल्पको यथा दण्डी इति । (२) गुण-
विकल्पको यथा शुक्लः इति । ( ३ ) क्रियाविकल्पको पथा गच्छति