2023-02-20 00:57:28 by ambuda-bot
This page has not been fully proofread.
म्यापको
-
सर्गः – १ सृष्टिः । २ काव्यादेः परिच्छेदः । यथा रघुवंशव प्रथमः
सर्गः इत्यादयः (१९) सर्गाः । यथा वा सर्गोयमादिर्गतः (नैषध ० )
इत्यादौ सर्गशब्दस्यार्थः । ३ अभिमति: ( हेमच० ) । यथा यदि सर्ग
एष ते ( रघु० ३१५१ ) इत्यादौ सर्गशब्दस्यार्थो भिमतिरूपो निश्चयः
( मल्लिनाथः ) । ४ स्वभावः । ५ उत्साहः । ६ निर्मोक्षः ।
७ निर्मोह: ( मेदि० ) ।
सर्पिणी--(विष्टि: ) वृश्चिकीशब्दे दृश्यम् ( पृ० ८०१ ) ।
सर्वगतत्वम् - १ विभुत्वम् । २ सर्वत्र वर्तमानस्वम् इति पौराणिका बदन्ति ।
सर्वज्ञत्वम् [ क ] उक्तानुक्ताशेषार्थेषु समास विस्तर विभाग विशेषता
तत्त्वव्याप्त सदोदित सिद्धिज्ञानं सर्वज्ञत्वम् ( सर्व० सं० १० १६६
मकु० ) । [ख] सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम-
रूपाणां भावानां स्वामिवदाकमणं सर्वभाषाधिष्ठातृत्वम् । तेषामेव शान्तो-
दिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम् ( सर्व० सं०
पृ० ३८५-३८६ पात० ) ।
--
सर्वत सिद्धान्तः – ( सिद्धान्तः ) [ क ] सर्वतन्त्राविरुद्धस्तदेधिकृतोर्थः
सर्वतब्रसिद्धान्तः ( गौ० ११११२८ ) । तदर्थस्तु सर्वतब्राविरुद्धोर्थः
स्वतन्त्रेधिकृतश्च यः । स सर्वतन्त्र सिद्धान्तो यथा मानेन मेयधीः ॥ ( ता०
र० लो० ५९ ) इति । तत्रे अधिकृत इति विशेषणं च मनस इन्द्रिय-
त्वस्य सर्वतन्त्रसिद्धान्तत्ववारणाय इति ज्ञेयम् ( गौ० वृ० १ । १ । २८ ) ।
यथा घ्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्था: पृथिव्यादीनि भूतानि
प्रमाणैरर्थस्य ग्रहणम् ( वात्स्या० ११ १२८) इति । यथा वा जात्या-
देरसदुत्तरत्वमपि सर्वतन्त्रसिद्धान्तः ( गौ० वृ० १ । १ । २८ ) । [ ख ]
नव्यास्तु वादिप्रतिवायुभयाभ्युपगतः कथानुकूलोर्थोपि सर्वतब्रसिद्धान्तः
इति बदन्ति ( गौ० वृ० १।१।२८ ) ।
सर्वनाम -[ क ] स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टम् । अत्र वं तदाति-
पदम् । अत्र त्यदादिसर्वनाम्नः शक्तिस्तु स्त्रोचारणानुकूलबुद्धिप्रकारा-
वच्छिन्नविषयकत्व – स्वजन्यस्व - एतदुभयसंबन्धेन सदादिसर्वनामप्रकारक-