This page has not been fully proofread.

न्यायकोशः ।
 
युक्ते उदाहरणे स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टं तथा शब्द
उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वंमुपसंहियते । उपसं-
हियतेनेनेति चोपसंहारो वेदितव्यः ( वात्स्या० ११११३८ ) । [ख] ]
तथेति साभ्यस्योपसंहारः । यथा पर्वतो बहिमान्धूमादित्यत्र वहिव्याप्य-
घूमबानयम् इति वा तथा चायम् इति वोपन्यासः ( गौ० दृ० १।१।
३८) । अन्वय्युपनयलक्षणं चान्वय्युपनयत्वमेव । तच्च साभ्यव्याप्यवि-
शिष्टपक्षबोधकावयवत्वम् ( चि० अव० ) ।
 
अन्ववसर्गः - कामचारानुज्ञानम् । यथेष्टं क्रियताम् इत्येवंरूपानुज्ञेत्यर्थः ।
यथा अपि सिञ्च अपि स्तुहीत्यादौ यथेष्टं कुर्याः इत्याद्यर्थोपिना योग्यते
न तु कुत्राप्यनुज्ञया प्रतिरोधः क्रियत इति ( वाच० ) ।
 
अन्वाख्यानम्-तात्पर्यावधारणार्थ प्रतिपादनम् । यथा बस्त्वन्याख्यानं
क्रियान्वाख्यानमित्यादौ ( वा० च० ) ।
 
अन्वा चयः -- उद्देश्यसिद्ध्यानुद्देश्यसिद्धयर्थोपदेशः । यथा मिक्षां गच्छ यदि
गां पश्येस्तां चानयेत्यादौ । अत्र भिक्षायामेवोदेशः न तु गवानयने । तत्सि-
द्धषुत्तरं गषानयनमनुद्दिष्टमपि साध्यतया निर्दिष्टम् इति ( वाच० ) ।
प्रधानगुणभावेन यत्र क्रियान्वयतात्पर्ये सोन्वाचयः ( त० म० ख० ४
पृ० ५२ ) । क्रियाभेदे त्वन्वाचयः । यथा एधानाहर्ते वनं ब्रज शाक-
मप्यानेष्यसि इति ।
 
-
 
अन्वादेश: -[ क ] पूर्वोपात्तस्य किंचित्कार्यान्तरं विधातुं पुनरुपदेशः ।
यथा अनेन व्याकरणमवीतम् न्यायमेनं पाठय इति न्यायपाठनार्थ पुन-
रुपदेश: ( सि० कौ० ) ( बाच० ) । [ ख ]
( वाच० ) ।
 
[ख]
 
कथितकथनम्
 
अन्याषानम्-इष्माबहि:संपादनम् अग्निपरिग्रहः उपस्तरणं चेत्येवमादि
( पु० चि० पृ० ३१८ ) ।
अन्वाषेयम् - विवाहात्परतो यच लब्धं भर्तृकुलात्स्त्रिया ।
तत्रज्पं कम्बं पितृकुलात्तथा ॥ ( मिताक्षरा भ० २ को०
 
-
 
अन्वाधेयं तु
१४४ ) ।