2023-02-20 00:57:28 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
BUR
समुदायत्वम् -[क] अनेकपर्याप्तो धर्मः ( ग० अवय० ) । यथ
जलादित्रयोदशभेदसमुदायः पृथिव्यां साध्यते इत्यादौ समुदायत्वशब्दार्थः
( त० दी० २ पृ० २३ ) । [ ख ] अपेक्षा बुद्धि विशेष विषयत्वम् ।
यथा घटपटस्तम्भकुम्भैतरसमुदायत्वम् । त्रित्वादिपर्याप्त संख्या विशेष इत्येक
आहुः । एवम् समूहत्वशब्दोपि व्याख्येयः । अत्र स्मर्यते समुदाय:
प्रत्येकानतिरिक्तः इति नैयायिकानां सिद्धान्त इति ।
समूहः- १ समूहालम्बन शब्दवदस्यार्थोनुसंधेयः (वै० सा० द० ) ।
२ समुदाय इति काव्यज्ञा आहुः ।
-
समूहालम्बनम् - [ क ] नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि
ज्ञानम् ( ग० व्यु० १ ) । यथा अयं घटः अयं पटः अयं स्तम्भः
अयं कुम्भश्च इत्येकं ज्ञानम् । अत्र ज्ञाने विशेषणद्वयदानेन धवखदिरौ
द्वौ इति खड्नी चैत्रः कुण्डली इति च वाक्यजन्यबोधयोः समूहालम्बना-
त्मकत्वं निराकृतम् इति बोध्यम् ( ग० व्यु० १ ) । संशये तु नाना-
प्रकारता निरूपिताया एक विशेष्यतायाः सत्त्वान्न समूहालम्ब नत्वम् ।
[ ख ] यत्र विशेष्यताभेदेन प्रकारताभेदः तज्ज्ञानम् । नानाविशेष्यता-
निरूपितनाना प्रकारताशालि ज्ञानम् इत्यर्थः ( कृष्णं० ) ।
सम्यक्चारित्र्यम् – संसरणकर्मोच्छित्ता वुद्यतस्य श्रद्दधानस्य ज्ञानवतः पाप-
गमनकारणक्रियानिर्वृत्तिः ( सर्व० सं० पृ० ६५ आई० ) ।
-
सम्यग्ज्ञानम् --[क] यथार्थज्ञानम् । यथा सत्यरजते इदं रजतम् इति
ज्ञानम् । [ख ] अविसंवादकं ज्ञानम् । [ग] यतश्चार्थसिद्धिस्तत् इति
बौद्धा आहुः ( न्या० बि० टी० पृ० ३-६ ) । एतन्मते सम्यग्ज्ञानं
द्विविधम् प्रत्यक्षम् लैङ्गिकं चेति । [ घ ] येन स्वभावेन जीवादयः
पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः इत्यार्हता
आहुः । तन्मते सम्यग्ज्ञानं पञ्चविधम् मतिः श्रुतम् अवधिः मनःपर्यायः
केवलं च ( सर्व ० पृ० ६३ आई० ) ।
सम्यग्दर्शनम् – येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रति-
पादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपर पर्यायं श्रद्धानम् ( सर्व०
सं० पू० ६२ आई० ) ।
G