2023-02-20 00:57:28 by ambuda-bot
This page has not been fully proofread.
९७४
समाइयः - प्राणिभिः
-
न्यायकोशः ।
क्रियमाणस्तु स विज्ञेयः समाइयः ( मिताक्षरा
अ० २।११९ ) ।
—
समितिः - प्राणिपीडापरिहारेण सम्यगयनम् ( सर्व० सं० पृ० ७८-
७९ आई० ) ।
समीपत्वम् – संनिकृष्टत्वम् ।
-
समुचयः – १ [ क ] विरोधानबगाही कोटिद्वयसामानाधिकरण्यावगाही च
निश्चयः । यथा पर्वतो वह्निमान् वढ्यभाववांश्व इति ज्ञानम् । अव्याप्य-
वृत्तित्वज्ञानकाले कोटिद्वयोपस्थितौ सत्यामिदं ज्ञानमुत्पद्यत इति विज्ञेयम् ।
गादाधरीयबाधग्रन्थफक्किकाया अयमेवाभिप्रायः इति प्रतिभाति । [ ख ]
धर्मितावच्छेदकसामानाधिकरण्ये नोभयकोव्यवगा
हिज्ञानम् ( त० प्र० २ ) ।
यथा वृक्षः कपिसंयोगतदभाववान् इति ज्ञानम् । २ निरपेक्षाणामेकत्रा-
न्वयः । स च यत्र असंबद्धे एकैकशः क्रियान्वयः । यथा धवं छिन्धि खदिरं
च छिन्धि इति समुच्चये तुल्यबदसंबद्धयोः क्रियान्वयधीः । अत्रायं विशेषः
प्राधान्येन यत्र क्रियान्वये तात्पर्यम् स समुच्चय इति ( त० प्र० ख० ४
पृ० ५२ ) । शाब्दिकास्तु यत्र परस्परनिरपेक्षाणामने केषा मेकस्मिन्क्रिया-
दावन्वयः सः । यथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः
परस्परसापेक्षत्वाभावेपि एकस्मिन् गमनेन्वय इति । तद्वाचकश्च प्रायेण
चकारः । क्वचित् तथा इत्यादिशब्दोपि वाचको भवति इत्याहुः ।
अन्वयश्च विशेष्यतया विशेषणतया वा । तत्राद्यम् चैत्रो गच्छति पचति
च इत्यादौ क्रियासमुच्चये । द्वितीयम् ईश्वरं गुरुं च भजस्व इत्यादौ
द्रव्यसमुच्चये ( वाच० ) । शिष्टं तु चशब्दे द्वन्द्वशब्दे च दृश्यम् ।
समुत्थानम् – व्रणरोपणम् ( मिताक्षरा अ० २१ २२२ ) ।
P
समुदयः -- रागादीनां गणोयं स्यात्समुदेति नृणां हृदि । आरमात्मीय-
स्वभावाख्यः स स्यात्समुदयः पुनः ॥ ( सर्व० सं० पृ० ४६ बौ० ) ।
समुदायः – दुःखकारणम् । तद्विविधम् । प्रत्ययोपनिबन्धनो हेतूपनिबन्ध-
नश्च ( सर्व० सं० पृ० ४० बौ० ) ।