2023-02-20 00:57:27 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
इति द्रष्टव्यम् । देवदत्तस्य गुरुकुलम् इत्यादौ देवदत्तादेस्तु प्रधानीभूत-
कुलादिनैवान्वयः । संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः । अथ वा
संबन्धिशब्दार्थस्य पदार्थैकदेशस्वेपि भवत्येव तत्र संबन्धप्रतियोगिनो-
न्वयः । तदुक्तं भर्तृहरिणा संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ।
वाक्यवत्सा व्यपेक्षापि वृत्तावपि न हीयते ॥ ( वाक्यप ) इति ।
वार्तिककारमतमपि भर्तृहरिमततुल्यमेव । प्राचीनानां तु विरुद्धा गाथा
सापेक्षे प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्त-
विशेषणम् ॥ इति । स च समासः षड्डिध: सुपां सुपा तिङा नाम्ना
धातुनाथ तिङां तिङा । सुबन्तेनेति च ज्ञेयः समासः षड्डिषो बुधैः ॥
( वै० सा० समा० कारि० २८) इति । तत्र सुपां सुपा समासो
यथा राजपुरुषः इत्यादिः । सुपां तिङा यथा पर्यभूषत् इत्यादिः ।
अयं समासः सह सुपा (पाणि० २।१।४ ) इत्यत्र योगविभागेन भाष्ये
व्युत्पादितः स्पष्ट शब्दकौस्तुभादौ । सुपां नाम्ना यथा कुम्भकार:
इत्यादिः । सुपां धातुना यथा कटप्रूः आयतस्तूः इत्यादिः । तिङां
तिङा यथा पिबतखादता पचतभृज्जता इत्यादिः । तिङां सुबन्तेन यथा
जहिस्तम्बः इत्यादिः इत्याहुः ।
समाहारः - १ साहित्यम् । तच्च [ क ] तुल्यवदेकक्रियान्वयित्वरूपम्
( न्या ०म० ) । यथा मार्दङ्गिकवैणविकं वादय इत्यादौ समाहारः । तुल्य-
वत् समभावेनेत्यर्थः । इदं च पत्नीयजमानयोरेकया गान्वयिनोरतिव्याप्ति-
वारणाय । तथा च पत्त्या अनुमतिद्वारा यजमानस्य च साक्षादेव यागा-
न्वयित्वम् न तुल्यवत् इति नातिव्याप्तिः ( म० प्र० ४ पृ० ४६ ) ।
तथा च क्रियायाः विधेयभूतायाः एकरूपस्तुल्यः संबन्ध: समाहारः इति
समुदितार्थः । यथा केषां चिन्मते पाणिपादं वादय इत्यत्र वादनक्रियायां
तुल्यवदेव पाणिपादयोरन्वयः ( त० प्र० ख० ४५० ५० ) । [ख]
अपेक्षाबुद्धिविशेष विषयत्वम् ( न्या० म० ४ पृ० १३ ) । []
बुद्धि विशेष विशेष्यत्यम् । यथा पाणिपादम् इत्यादौ समाहारद्वन्द्वे समाहारः
( श० प्र० लो० ४८ टी० पृ० ६१ ) । २ समुच्चयः । अनुद्भूता-
वयषविशेषः समूहः इति वैयाकरणा आहुः (वाच० ) ।
.