This page has not been fully proofread.

न्यायकोशः ।
 
समासानां पञ्चविधस्वं वदन्ति ते च समासा अपि पूर्वोक्तसप्तविधान्तर्गता
एव भवन्ति । तथा हि । ( १ ) कश्चित्समासः पूर्वपदार्थधर्मिकान्वय-
बोधजनकतया पूर्वपदप्रधान उच्यते । यथा प्राप्तजाया अर्धपिप्पली
पूर्वकाय: इत्यादिकस्तत्पुरुषः । यथा वा उपकुम्भाद्यव्ययीभावः पुरुष-
सिंहादिकर्मधारयश्च । ( २ ) कश्चिन्मध्यमपदार्थधर्मिकचीजनकतयैव
मध्यमपदप्रधानः । यथा पटानधिकरण-प्रतियोगितानवच्छेदक-इत्यादिक-
स्तत्पुरुषः । पटस्य नाधिकरणम् इत्यादिविग्रहे मध्यम पदार्थस्यैव विशेष्य-
वात् । (३) कश्चिदन्त्यपदार्थधर्मिकघीहेतुत्वादन्त्यपदप्रधानः । यथा
राजपुरुषादिकस्तत्पुरुषः । नीलोत्पलादिकः कर्मधारयः द्विगार्ग्याचव्ययी-
भावश्च । ( ४ ) कश्चित्सर्व पदार्थधर्मिकबुद्धिहेतुत्वात् सर्वपदप्रधानः ।
यथा इतरेतरद्वन्द्व द्वन्द्वमात्रं वा । ( ५ ) कश्चित्स्वाघटकान्यपदार्थ-
धर्मिकज्ञान जनकत्वादन्यपदार्थप्रधानः । यथा बहुव्रीहिः खलेयवाद्य-
व्ययीभावश्च इति । नित्यानित्यभेदेनापि समासस्य द्वैविध्यं जयादित्यादि-
भिरुक्तम् ( श० प्र० श्लो० ३३ टी० पृ० ३९-४० ) । तत्राविग्रहः
अस्वपदविग्रहो वा नित्यसमासः ( त० प्र० ख० ४ पृ० ४२ ) ।
[ग] वैयाकरणास्तु या दिपदाना मेकपदतासंपादक: पदसाधुतार्थकः
संस्कार विशेषः । यथा राजपुरुष इत्यादौ । अत्र सूत्रम् समर्थः पदविधिः
(पाणि० २११११ ) इति । अत्र सामर्थ्य द्विविधम् व्यपेक्षावत्त्वम्
)
एकार्थीभावश्च । तत्र ( १ ) स्वार्थपर्यवसायिपदानामाकाङ्क्षा दिवशाद्यः
परस्परं संबन्धः सा व्यपेक्षा । परस्पर निरूप्य निरूपक भावापन्न विषयता-
प्रयोजकत्वे सति एकार्थोपस्थित्यजनकत्वम् । राज्ञः पुरुषः इत्यादौ वाक्ये
सत्यामाकायाम् यो यो यस्मिन् संनिहितो योग्यश्च स तेन तेन
संबध्यते । यथा राज्ञः पुरुषोश्वश्व राज्ञो देवदत्तस्य च पुरुषः ऋद्धस्य
राज्ञोश्वो धनं च इत्यादि । वृत्तौ तु नैवम् । वृत्तीनामेकार्थीभावात् ।
(२) एकार्थीभावस्तु विशेष्यविशेषणभावावगाह्ये कोपस्थितिजनकत्वम् ।
तथा च राजादिशब्देन विशिष्टैकार्थबोधकतया न तदेकदेशे ऋद्धादेर-
न्वयः । पुरुषाशे विशेषणतयोपस्थितस्य नाश्वादिसंबन्धिता राजादीनाम् ।
जनितान्वयाच्च निराकारतया न देवदत्तादेः स्वामितया पुरुषादावन्वयः
 
:
 
९७१९
 
-