2023-02-20 00:57:27 by ambuda-bot
This page has not been fully proofread.
न्यायकोचर ।
९६९
समातपुरातत्वम् [क] क्रियान्वयेन शान्ताकाङ्क्षस्य विशेष्यवाचक-
पदस्य विशेषणान्तरान्वयार्थ पुनरनुसंधानम् । नियताकारहितान्वय-
बोधोत्तरं विशेष्यवाचकपदस्य पुनरनुसंधानम् इति समुदितार्थ: (राम० १
पृ० २ ) । अन्न व्युत्पत्तिः समाप्ते वाक्यसमाप्तौ पुनरातता ग्रहणम्
इति । तच समाप्त पुनरात्तत्वम् विशेष्यवाचकपदनिष्ठः काव्यदोषः
उत्थाप्याकाङ्क्षास्थल एवं प्रवर्तते न तूत्थिताकास्थल इति बोध्यम्
( दि० मङ्गक ० ) । यथा उदयति चन्द्रः कुमुदबन्धुः इत्यादौ समाप्त-
पुनरात्तत्वं दोषः । तदुदाहृतं चन्द्रालोके समाप्तपुनरात्तं स्यादेष पीयूष-
भाजनम् । नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः ॥ इति । [ ख ]
केचित्तु निराकाङ्क्षबोधजनकषा क्योत्तरत्व विशिष्टतद्वाक्यघट की भूतपदार्था-
न्वित विशेषणबोधकपदवत्त्वम् इति वदन्ति ।
-
-
समाप्तिः - १ अवसानम् । तच्च तत्तद्वस्तुकालचरमसंबन्धः । यथा समाप्ते
यज्ञकर्मणि इत्यादौ । समाप्तिस्तु यस्मिनुष्ठिते संपूर्णमिदं कर्म इति प्रमा
सा च प्रन्यादौ चरमवाक्यलिखने यागादौ चरमाहुतौ पटादावन्स्यतन्तु-
संयोगे ग्रामगमनादौ प्रामचरणचरमसंयोगे प्रमा । एवं तत्र तत्रोहनीया
(वै० उ० १/१/१ पृ० ५ ) । २ चरमवर्णः ( त० प्र० १ ) ।
पत्र ग्रन्थसमाप्तिः । ३ चरमवर्णजन्यं तद्वितीयक्षणोत्पन्नं तत्सजातीयं
वर्णान्तरम् । केचित्तु ४ आरब्धकर्मजन्यश्वरमवर्ण पर्यन्त वर्णसमूहरूप-
प्रन्थादि: : इत्याहु: । ५ चरमवर्णध्वंस: ( त० प्र० १ ) ( मू० म० १
पृ० २३ ) । चरमकृतिध्वंसः । यथा प्रन्धसमाप्तिः स्वोत्पत्तिक्षणध्वंस:
स्वस्थ समाप्तिः ( म०प्र० ) । आद्या प्रवृत्तिरारम्भः इति जैमिनीयारम्भ-
लक्षणानुसारादिदं लक्षणम् । तस्य चरमकृतिध्वंसस्य च स्वप्रतियोगि
विषयत्वेन प्रत्यनिष्ठत्वं बोध्यम् ( म०प्र०) । ६ चरमवर्णजन्यम् आरब्ध-
कर्मश्चरमवर्णाशे लौकिक प्रत्यक्षात्मकम् आनुपूर्वी विशेष विशिष्टतावद्वर्ण-
विषयक समूहालम्बना नुसंधानं समाप्तिः इत्यन्य आहुः ( मू० म० १
पृ० २४ ) । ७ ज्ञानविशेष एव समाप्तिः इत्यपर आहुः ( म० वा०
पृ० ५ ) । ८ परिच्छेदः । ९ वधः । १० समाधानम् (विश्वः) ।
११ समर्थनम् (मेदि० ) । १२ प्राप्तिः (शब्दच ० ) ( वाच ० ) ।
१२९ न्या० को●