This page has not been fully proofread.

न्यायकोशः ।
 
समानवित्तिवेधत्वम् – तुल्यवित्तिवेद्यत्वम् ( त० प्र० ख० ४ पृ० २१ ) ।
 
-
 
-
 
समानविभक्तिकत्वम् - [क] स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् ।
यथा नीलो घटः इत्यादौ नीलपदघटपदयोः समान विभक्तिकत्वम् । इदं च
अभेदान्वयविषयकशाब्दबोधे प्रयोजकं भवति । अत्रेदमधिकं बोध्यम् । स-
मानविभक्तिकत्ववत् समानवचनकत्वमप्यभेदान्वयबोधे तन्त्रम् इति नियमः ।
तत्र व्यवस्था । यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध-
संख्याया अविवक्षितत्वम् तत्र विशेष्यविशेषणपदयोः समानलिङ्गवचन-
कत्वनियमः इति । तेन पुरूरवोमार्दवसौ विश्वेदेवाः त्रयः समुदिता हेतुः
पितरो देवताः जात्याकृतिव्यक्तयः पदार्थाः प्रत्यक्षानुमानोपमानशब्दाः
प्रमाणानि इत्यादिषु विभिन्नलिङ्गवचनकस्थलेष्वभेदान्वयबोध उपपद्यते
( व्यु० का० १ पृ० १-३) इति । अत्र विभक्तौ तादृशविभक्ति-
साजात्यं च विभक्तिविभाजकप्रथमात्वादिनावगन्तव्यम् । तेन वेदाः
प्रमाणम् शतं ब्राह्मणाः इत्यादौ समान विभक्तिकत्वं संपद्यते ( ग० व्यु०
का० १ पृ० १ ) । [ ख ] केचित्तु विरुद्धविभक्तयनवरुद्धत्वम् । यथा
नीलमुत्पलम् नीलोत्पलम् इत्यादौ समानविभक्तिकत्वम् ( म०प्र० ४
पृ० ४८) । [ग] विरुद्धविभक्तिराहित्यम् । तञ्च स्तोकं पचति इत्यादौ
विभक्तिशून्यभागेप्यस्ति इति ज्ञेयम् ( त० प्र० ४ पृ० ४६ ४७) ।
[ घ ] विशेषणपदस्य विशेष्यपदाप्रकृतिकविभक्तयप्रकृतित्वम् । यथा नील-
घटमानय नीलं घटमानय इत्यादौ समान विभक्तिकत्वम् इत्याहुः ( ग०
ब्यु० १ पृ० ३ ) । इदं च विरुद्ध विभक्तिराहित्यरूपा समासव्यास-
साधारणाकाङ्क्षा इत्युच्यते । तत्तु वैयाकरणखसूचिमानय इत्यादौ न
प्राप्नोति इति चिन्त्यम् ।
 
समानविषयकत्वम् - तुल्यरूपविशेष्य विशेषणताशालित्वम् तद्विषयविषय-
कत्वं वा । यथा पर्वतो वह्निमान् पर्वतो महानसीयवह्निमांश्च इति निश्चययोः
समानविषयकस्वम् । कचित् अभावप्रतियोगिताबच्छेदकतया ग्राह्यवृत्ति
धर्माबगाहित्वम् ( ग० बाघ ० ) । यथा पर्वतो महानसीयवहयभाववान्
इति निश्चयस्यापि पर्वतो वह्निमान् इति बुद्धिसमान
विषयकत्वम् । अत्रेद-