This page has not been fully proofread.

न्यायकोशः ।
 
समानः
 
१ ( वायुः ) [ क ] आहारेषु पाकार्थं बहेः समानयनात्समानः
( दि० ११२ ) । [ ख ] भुक्तपरिणामाय जठरानलस्य समुनयना-
समानः । स च प्राणान्तर्गतो वायुः ( सि० च० ) । २ एकः ।
यथा समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन सिद्धान्तः (गौ० ११ १२ १२९ )
इत्यादौ । यथा वा यत्समानाधिकरण ( चि० २ व्याप्सि० ) इत्यादौ
समानशब्दस्यार्थः । ३ तुल्यः । यथा सिंहसमानगुणयोगान्माणवकः
सिंह: इत्यादौ समानशब्दस्तुल्यार्थकः । ४ साधुः इत्यन्ये वदन्ति ।
समानधर्मः – [ क ] विरुद्धकोटिद्वयसाधारणधर्मः (गौ० वृ० १ । १ । २३) ।
यथा स्थाणुपुरुषयोः समानो धर्म आरोहपरिणाहौ (वारस्या० १ । १ । २३)।
तादृशधर्मज्ञानं च स्थाणुर्वा पुरुषो वा इत्याकारकसंशये प्रयोजकम् इति
विज्ञेयम् । [ ख ] कोटिद्वयसहचरितधर्मः ( दि० गु० ) । यथा र
रजतं न वा इति संशये हेतुभूतः रङ्गरजतयोः सामान्यधर्मश्चाकचिक्य-
शुभ्रत्वादिः । [ग] साधर्म्यम् (मु० १ ) ।
 

 
-
 
-
 
समानपदत्वम् – एकपदत्वम् ।
 
समानप्रकारकत्वम् – १ स्वस्मिन् ( यत्किचिज्ज्ञानादौ ) यद्धर्मावच्छिन्न-
विशेष्यता निरूपितयद्धर्मावच्छिन्नप्रकारताकत्वम् ततोन्यत्र ( ज्ञानादौ )
तादृश विशेष्यता निरूपित तादृशप्रकारताकत्वम् । यथा संशयनिश्चययोः ।
२ प्रतिबध्यप्रतिबन्धकभावस्थले प्रतिबध्यज्ञाने यद्धर्मावच्छिन्नविशेष्यतानि-
रूपितयद्धर्मावच्छिन्न प्रकारताकत्वम् प्रतिबन्धकज्ञाने च तद्धर्मावच्छिन्नवि-
शेष्यता निरूपिततद्धर्मातिरिक्तधर्मा नवच्छिन्न प्रतियोगिताका भावत्वावच्छि-
नप्रकारता निरूपकत्वम् । यथा नव्यमते पर्वतो बड्यभाबवान् इति
निश्चयस्यापि पर्वतो महानसीयवह्निमान् इति बुद्धिसमान प्रकारकत्वम् ।
अत्रेदमवधेयम् । तदभाववत्ता निश्चयनिष्ठायां तद्वत्ता बुद्धिप्रतिबन्धकतायां
समानप्रकारकत्वं तन्त्रम् इति नव्यानां सिद्धान्तः । प्राचां सिद्धान्तस्तु
तत्र समानविषयकत्वमेव तनम् इति । अत्रेदं तत्त्वम् । विशेषतद्वत्ताबुद्धिं
प्रति सामान्यतदभाववत्ता निश्चयस्यापि प्रतिबन्धकत्वम् इति सर्वानुभव-
मनुरुध्येदमुक्तम् इति ।