2023-02-20 00:57:26 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
समवायिकारणम् – ( कारणम् ) [ क ] यत्समवेतं कार्यमुत्पद्यते तत् ।
• यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः समवायिकारणम् ( त० सं० ) ।
यत्समवेतमित्यस्यार्थच यस्मिन्समवायेन संबद्धं सत् कार्यमुत्पद्यते तत्
( न्या० बो० ) । यद्वा यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने समवायेनोत्पद्यते
तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणम् (नील० १
पृ० १७ ) इति । तथा हि तन्तुषु समवायेन संबद्धं सत् पटात्मकं कार्य-
मुत्पद्यते । अतः तन्तुः पटस्य समवायिकारणं भवति ( न्या० बी० १
पृ० ९ ) इति । समवायिकारणत्वं च समवायसंबन्धेन कार्याधिकरण-
त्वम् ( ल० व० ) ( वाक्य० १ पृ० १० ) । अथ वा समवायसंबन्धा-
वच्छिन्न कार्यतानिरूपिततादात्म्य संबन्धावच्छिन्न कारणत्वम् । तथा हि ।
समवाय संबन्धेन घटाधिकरणे कपालादौ कपालादेस्तादात्म्यसंबन्धेनैव
सत्त्वात् समवायेन घटं प्रति तादात्म्येन कपालं कारणम् इति कार्यकारण-
भावः इति । समवायसंबन्धावच्छिन्नघटत्वावच्छिन्न कार्यतानिरूपिततादा-
म्यसंबन्धावच्छिनकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः ( न्या०
बो० १ पृ० ९) । अत्र नियमः समवायिकारणत्वं द्रव्यमात्रवृत्ति
इति ( भा०प० श्लो० २३ ) (वै० १०।२।१ ) । अत्राहुरपरे
द्रष्यस्य समवायिकारणत्वेपि निमित्तकारणत्वमग्यस्ति । तथा हि पटं प्रति
तन्तूनां समवायिकारणत्वेपि तुरीतन्तुसंयोगद्वारा निमित्तकारणत्वमपि
तेषां विद्यते तुरीवत् ( त० व० २ । ३३ ) ( वै० उ० १०।२।२ )
इति । [ ख ] स्वसमवेत कार्योत्पादकम् । तच्च द्रव्यमेव भवति ।
[ग] उपादानकारणम् इति सांख्यमायावादिवेदान्तिप्रभृतय आहुः ।
अस्मिन्मते उपादानत्वं च परिणामित्वम् इति ज्ञेयम् । उपादानं निमित्तं
च इति द्विविधमेव कारणम् इति च ज्ञेयम् ( प्र० च० पृ० १३ ) ।
समचायित्वम् - १ समवायानुयोगित्वम् । यथा कपाले घटसमवायित्वम्
गुणक्रिययोश्च समवायित्वं द्रव्ये । २ विद्यमानत्वम् इति काव्यज्ञा वदन्ति ।
समवेतम् -१ कस्मिंश्चित् द्रव्यगुणकर्मात्मके वस्तुनि समवायसंबन्धेन :
विद्यमानम् । यथा मृदा समवायेनोत्पाद्यं घटात्मकं कार्य कपाले समवेतं
—
6