2023-02-20 00:57:26 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
योग्यप्रतियोगिकत्वे
सति विशेषणतया योग्यवृत्तित्वात् भूतलांदिवृत्ति-
घटायन्ताभाषादिवत् इत्यादि ( वै० वि० ७२२८ ) । एतन्मते च
समवाय प्रत्यक्षं प्रति इन्द्रियसंबद्ध विशेषणतासंनिकर्षो हेतुः इति कार्य-
कारणभावो ज्ञेयः (मु० ) ( वै० वि० ७१२१२८) । इह कपाले
घटसमवायः इति प्रत्यक्षं विशेषणतासंनिकर्षेणैव भवति ( प्र० प्र० )
( त० कौ० ) इति । समवायोतीन्द्रियः अनुमेय एव इति वैशेषिका
आहुः । वैशेषिकमते समवायस्यातीन्द्रियत्वे प्रमाणमनुमानम् । तच
समवायोतीन्द्रियः । चेतनान्यत्वे सति असमवेतभावत्वान्मनोबत् आका-
शादिवद्वा (वै० वि० ७१२१२८) (वै० उ० ७ १२१२८ ) इति ।
समवायो न प्रत्यक्षः । संबन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् ।
कथमन्यथा घटाकाशसंयोगो न प्रत्यक्षः । न च समवायस्य सर्वे
आश्रयाः प्रत्यक्षाः । परमाण्वादेरयोग्यत्वात् ( न्या० म० १ पृ० ७ )
इति । अनुमानं तु गुणक्रियादिविशिष्टबुद्धिर्विशेष्य विशेषण संबन्ध विषया
विशिष्टबुद्धित्वात् दण्डी पुरुषः इति विशिष्टबुद्धिषत् (मु० १ पृ० ३९ )
इति । इदमनुमानं समवायसद्भावे प्रमाणं भवति (वै० वि० ७ । २ । २६ )
(मु० १ पृ० ३९) । सर्वत्र स्वरूपस्यैव संबन्धवोपपत्तौ समवायो न
पदार्थान्तरम् इति भट्टा वेदान्तिनः सांख्याच मन्यन्ते ( ता० २०
को० ५४ ) (३० उ० ७१२१२८ ) ( वै० वि० ४/२/११ )
( दि० १ ) ( सि० च० ) ( राम० १ पृ० १२२ ) । तत्र माध्त्रा-
नामयमाशयः । गुणादीनां गुण्यादिभिः द्रव्यादिभिः अभेदेन समवाया-
भावात् । आत्मनस्तद्धर्माणां च साक्षिविषयत्वेन मनोविषयत्वाभावात् ।
वर्णात्मकशब्दस्याद्रव्यत्वेनाकाशविशेष गुणत्वा भावात् (प्र०प० पृ० ११)
इति । गुणकर्मसामान्यादिभिर्द्रव्यस्य भेदाभेदौ । तत्र यावद्रव्यभाविना
गुणकर्म सामान्यादिना द्रव्यस्यात्यन्ताभेद एव । अयावद्रव्यभाविना तु
भेदः ( प्र० च० परि० २ पृ० ५२ ) इति । २ समवायो नाम
समूह: । ३ मेलनं च । यथा सेनायां समवेता: ( अमरः २८/६१ )
इत्यादौ इति काव्यज्ञा आहुः ।
९६२