2023-02-20 00:57:25 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
( प्रशस्त ० १ पृ० २५ ) इति । स च अयुतसिद्धयोः संबन्ध:
( त० भा० १ ) । स च यथा अवयवावयविनोः गुणगुणिनोः क्रिया-
क्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोध संबन्धः ( त० सं० )
( १० मा० पृ० ३८ ) । यथा घटकपालयोः संबन्धः समवायः ।
एवमन्यत्राप्यूह्यम् । तदुक्तम् घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ।
तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः ॥ ( भा० प० श्लो० ११)
इति । अत्र भाष्यम् । अयुतसिद्धानामाधार्याधारभूतानां यः संबन्धः
इहप्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारण-
भूतानाम् अकार्यकारणभूतानां वा अयुतसिद्धानामाधार्याधारभावेनाव-
स्थितानाम् इहेदम् इति बुद्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्य-
त्वानाम विष्वग्भावे नावस्थितानाम् स समवायाख्यः संबन्धः । कथम् ।
यथा इह कुण्डे दधि इति प्रत्ययः संबन्धे सति दृष्टः । तथा इह तन्तुषु
पट: इह वीरणेषु कटः इह द्रव्ये च द्रव्यगुणकर्माणि इह द्रव्यगुणकर्मसु
सत्ता इह द्रव्ये द्रव्यत्वम् इह गुणे गुणत्वम् इह कर्मणि कर्मत्वम् इह
नित्यद्रव्येष्यन्त्या विशेषाः इति इहप्रत्ययदर्शनात् अस्त्येषां संबन्धः इति
विज्ञायते । न चासौ संयोगः । संबन्धिनामयुतसिद्धत्वात् । अन्यतरकर्मा-
दिनिमित्तस्याभावात् । विभागान्तत्वादर्शनात् । अधिकरणाधिकर्तव्य-
योरेव च भावादिति । भाववलक्षणभेदात् भाववत्सर्वत्रैकः समवायः ।
सच द्रव्यादिभ्यः पदार्थान्तरम् । स च प्रमाणत: कारणानुपलब्धे-
र्नित्यः । तस्मात्स्वात्मवृत्तिः । अत एव चातीन्द्रियः । सत्तादीनामिव प्रत्य-
क्षेषु वृश्यभावात् । स्वात्मगतसंवेदनाभावाच्च । तस्मात् इहबुड्यनुमेयः
समवाय: ( प्रश० पृ० ६७ ) । समवायसवे प्रमाणं तु अनुमानम् ।
तच जात्यादिगोचरो विशिष्टव्यवहारः संबन्धनियतः भावमात्र विषया
बाधित विशिष्टष्यवहारत्वात् । सघटं भूतलम् इति व्यवहारवत् ( म्या
ली० पृ० ५४ ) इति । घटे घटत्वं रूपं च समवेतम् सन्तुषु पठः
समवेतः इह कर्म समवेतम् इत्यनुगतसमवाया कारप्रतीत्या तत्सिद्धिः
( न्या० म० १ पृ० ९) । वस्तुतस्तु स्वाश्रयसमवेतत्व संबन्धेनावयव-
नीलादेरवयविनीलादौ हेतुत्वात्कारणतावच्छेदकसंगन्धघटकतया सम-