This page has not been fully proofread.

न्यायकोशः ।
 
पृ० ३४१) (३० वि० ) ( भवा० ) । अन्यत्सर्वे शक्ति संकेत इत्येत-
च्छन्दव्याख्याने द्रष्टव्यम् । २ नियमबन्धः । ३ शास्त्रम् । ४ कालः ।
५ सिद्धान्तः । ६ शपथः । ७ आचारः । ८ अङ्गीकारः । ९ क्रिया-
कारकः । १० निर्देशः । ११ भाषा ( मेदि० ) । १२ संपत् ।
१३ कालविज्ञानम् ( शब्दच० ) ।
समर्थः - १ यत्किंचिदर्थकारी ।
 
यत्किंचित्कार्यप्रयोजकः इति यावत् ।
 
-
 
२ शाब्दिकास्तु संगतार्थ: । स च अन्वयान्वयिभावापन्नोर्थः इत्याहुः ।
३ शक्तः । ४ हितश्व इति काव्यज्ञा आहुः ( अमरः ३।३।८६ ) ।
समर्थत्वं च सामर्थ्यम् । तच्च सामर्थ्यशब्दे दृश्यम् ।
 
समर्थनम् }
 
समर्थना
 
- १ ( लोडर्थ: ) पराशक्यधर्मिक स्वशक्यत्वाध्यवसायः ।
 
यथा पर्वतमप्युत्पाटयानि समुद्रमपि शोत्रयाणि इत्यादी लोडर्थः । तथा च
स्वेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वाध्यवसायवान् इत्येवं
सत्रान्वयबोधः । अथ वा पर्वतमप्युरपाटयानि समुद्रमपि शोषयाणि
इत्यादौ निपातस्यैवापेर्धात्वर्थान्वितं पराशक्यत्वमर्थः । तिङस्तु स्वशक्यता-
ध्यवसायमात्रम् । अध्यषसायोबधारणम् ( श० प्र० श्लो० १००
टी० पृ० १४५-९४६ ) । २ इदमिस्थमेव इति निश्चयहेतूपन्यासेन
निबायकव्यापार विशेष: इति केचिदाहुः । ३ युक्तायुक्तत्वेन परीक्षणम्
( अमर: २ क्षत्रियव० श्लो० २५ टी० ) ।
 
समव हितस्त्वम् – १ एककालीनत्वम् ( मू० म० १ ) । यथा घटसमवहितः
पहः इत्यादौ समवहितत्वशब्दार्थः । २ सहवृत्तित्वम् । यथा मण्यादि-
समबहितेम बहिना दाहो न जन्यते ( त० दी० ) इत्यादौ समबहित-
श्वशब्दस्यार्थः : । ३ सम्यगवधानयुक्तत्वम् इति साहित्यशास्त्रज्ञा आहुः ।
 
-
 
समवायः - १ ( पदार्थ: ) इहेदमिति यतः कार्यकारणयोः स समवायः
(३० ७७२२६) । सदर्थव कार्यकारणयोरवयवावयविनोर्यतः
संबन्धात् इहेदम् इति प्रत्ययः स समवायः ( वै० वि० ७।२।२६ ) ।
अयुत सिद्धाना माघार्याधारभूतानां यः संबन्धः इद्दमव्ययहेतुः स समवायः