This page has not been fully proofread.

न्यायकोशः ।
 
घटमानय इत्यादौ क्रियापदस्य द्वितीयान्तघटपदसमभिव्याहारः । [ग]
साक्षात्परंपरया वा तत्पदप्रयोज्यविषयतानिरूपित विषयताप्रयोजकस्वमिति
केचिदाहुः । २ शेषशेषिवाचकपदयोः सहोच्चारणम् इति मीमांसका
आहुः । ३ साहित्यम् इति काव्यज्ञा आडुः ।
 
सममिव्याहृतत्वम् – १ एकवाक्यतापनत्वम् । यथा पदानां समभिव्याहृत-
स्वमाकाङ्क्षा इत्यादौ समभिव्याहृतत्वशब्द स्यार्थः । २ साहित्यम् । ३ सहो-
चरितत्वम् । ४ अव्यवहितत्वं च इत्यन्ये आहुः ।
 
सममिहारः १ पौनःपुन्यम् । यथा क्रियासमभिहारेण विराभ्यन्तं क्षमेत
कः ( माघ ० २।४३ ) इत्यादौ समभिहारशब्दस्यार्थः । २ सातत्यम्
इति शाब्दिका आहुः । ३ भृशम् इति काव्यज्ञा आहुः ।
 
-
 
समम् – ( अव्ययम् ) १ साहित्यम् । यथा समं रामेण लक्ष्मणः इत्यादौ ।
२ एकदा ( युगपत् ) इत्यर्थः । यथा सममेव समाकान्तं द्वयं द्विरद-
गामिना ( रघु० ४।४ ) इत्यादौ ।
 
-
 
समयः – १ [ क ] अस्य शब्दस्येदमर्थजातमभिषेयम् इत्यमिधानामिधेय-
नियमनियोगः ( शक्तिः ) । तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति
( वात्स्या० २ । १ । ५५ ) । [ ख ] ईश्वरसंकेतः । अस्माच्छन्दादयमर्थो
बोद्धव्यः इत्याकारः । यथा सामयिकः शब्दादर्थप्रत्ययः (३०७।२।२० )
इत्यादौ समयशब्दस्यार्थः । यः शब्दो यस्मिन्नर्थे भगवता संकेतितः स
तमर्थं प्रतिपादयति । तथा च शब्दार्थयोरीश्वरेच्छैव संबन्धः । स एव
समयः । तदधीनः शब्दादर्थप्रत्ययः ( वै० उ०७/२२० ) । मम्मट-
भट्टस्तु नाभिधा समयाभावात् ( काव्यप्र० २।२२) इत्या दिग्रन्थेनाभिधा-
समययोर्भेदमुररीचकार । अत्र नैयायिकैः साभ्यसमो दोष उद्भाब्यते ।
मीमांसकमते तु नायं दोषः । अभिधासमययोस्तैर्भेदाङ्गीकारात् इति
विज्ञेयम् । समयश्च जातिमात्रे । व्यक्तेराक्षेपत एवोपस्थितेः । इतितौतातिका
आडुः । जातौ व्यक्तौ चोभयत्र शक्तिः । किं तु जायंशे ज्ञाता व्यक्त्यंशे
स्वरूपसती प्रयोजिका इति प्राभाकरा आदुः । समयः शक्तिरेष ।
व्यक्त्याकतिजातयः पदार्थाः इति वृद्धा आहुः (३० उ०७२/२०