This page has not been fully proofread.

९५६
 
न्यायकोशः ।
 
कटे शेते गुरौ वसति इत्यादि । द्वितीयस्योदाहरणं मोक्षे इच्छास्तीति ।
तृतीयस्योदाहरणं तु तिलेषु तैलम् इति । अत्राद्यं सामीप्य संबन्धनिबन्ध-
नम् । आधेयव्याप्यतावच्छेदकयत्किंचिदवयवकम् इति यावत् । द्वितीयं
विषयता संबन्धनिरूपकम् । तृतीयमाधेयव्याप्यतावच्छेदकयावदवयव-
कम् । कटे शेते इत्यत्र परम्परया कटाभिन्नाश्रयकः शयनानुकूलो व्यापारः
इति बोधः । एवमन्यत्राप्यूह्यम् (वै० सा० द० सुबर्थ० पृ० ८६ )।
२ कचित् निरूपकत्वम् निरूप्यत्वं वा सप्तम्यर्थः । यथा भूतले वर्तते
घटः इत्यादौ भूतलपदोत्तरवर्तिसप्तम्या अर्थः । यथा वा इति हेतुस्तदुद्भवे
( काव्यप्र० १) इत्यादौ हेतुतायाम् उद्भवपदार्थोत्पत्तिनिरूपिसत्वं सप्तम्या
बोध्यते । ३ कचित् अवच्छेद्यताविशेषः । यथा वीणायां शब्दः कर्णे
शब्दः वृक्षाप्रे कपिसंयोगः इत्यादौ सप्तम्यर्थः ( ग० ब्यु० का ० ७ १०
११६) । ४ निमित्तत्वम् । यथा चर्मणि द्वीपिनं हन्ति मशकनिवृत्तौ घूमं
करोति इत्यादौ सप्तम्यर्थ: ( का० व्या० पृ० ११ ) । अत्र चर्मोद्देश्य-
कद्वीपिकर्मकहननकर्ता इति बोधः । अधिकं तु निमित्तत्वशद्रव्याख्याने
दृश्यम् । ५ उत्पत्तिः । यथा शरदि पुष्यन्ति सप्तच्छदाः इत्यादौ
सप्तम्यर्थः । अत्र शरदुत्पत्तिकपुष्पाश्रयाः सप्तच्छदाः इति वाक्यार्थः
( का० व्या० पृ० १२) । ६ समानाधिकरणत्वम् । तच्च द्विविधम्
कचित् कालिकम् कचित्तु दैशिकम् । तत्राद्यं समानकालीनत्वादिकम् ।
यथा गोषु दुह्यमानासु गतः इत्यादौ ( का० व्या० पृ० १२ ) ।
यथा वा घने वर्षति चौर आगतः इत्यादौ सप्तम्यर्थः ( म० प्र०
पृ० ६ – ७ ) । अत्र दृष्टिसमानकालीनागमनाश्रयश्चौरः इति बोधः
 
O
 
( म० प्र० पृ० ७ ) । अत्रार्थे यस्य च भावेन भावलक्षणम् (पाणि
२ । ३ । ३७ ) इत्यनेन सूत्रेण सप्तम्यनुशिष्यते। सूत्रार्थस्तु यस्य धर्मेण
धर्मान्तरं निरुक्तस्वसामानाधिकरण्येन प्रतिपाद्यते तत्र सप्तमी इति ( का०
व्या० पृ० १२ ) । यद्विशेषणकृदन्तार्थविशेषणता पन्नक्रियया क्रिया-
न्तरस्य लक्षणं व्यावर्तनं तद्वाचकपदात्सप्तमी इति वा । अत्रेदमधिकं
विज्ञेयम् । वर्तमानार्थककत्सम भिव्याहारस्थले गोषु दुवामानासु गत इत्यादौ
समानकालीनत्वम् । गोषु दोग्धव्यासु गत इत्यादिभविष्यदर्थककुत्स्थले