This page has not been fully proofread.

न्यायकोशः ।
 
४९
 
-
 
अन्वयव्याप्तिः - ( व्याप्तिः) प्रकृतहेतुनिष्ठा प्रकृतसाध्यनिरूपिता व्याप्तिः ।
अन्वयनिरूपिता व्याप्तिरित्यर्थः ( ग० सामा० ) । अन्वयव्याप्तावयं
नियमः - अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोन्यथा
व्याप्यो व्यापकः साधनात्ययः ॥ इति ( त० कौ० १२ ) ( सि० च०
२ । २६ ) । हेतुसाध्ययोर्व्याप्तिः (त० दी० २ । २३ ) । यथा यत्र घूमस्त-
त्राग्निः इति साहचर्यनियमः ( त० सं० ) । घूमव्यापकवह्विसामानाधि-
करण्यमित्यर्थः ( न्या० बो० २११४ ) । व्याप्तिश्चात्यन्ताभाषान्योन्या-
भावभेदेन भिन्ना अव्यभिचरितसामानाधिकरण्यव्यापकसामानाधिकरण्य
रूपा ( ग० सामा० २३ ) । साध्यवदन्यावृत्तित्वहेतुव्यापकसाध्यसा-
मानाधिकरण्यादिरूपेत्यर्थः ( न्या० बो० २११४ ) । तद्भेदतत्स्वरूपत
लक्षणप्रपञ्चच व्याप्तिशब्दव्याख्यानावसरे सविस्तरं संपादयिष्यते इत्य-
त्रैव विरम्यते ।
 
अन्वयिहेतुः – ( अवयवः ) [ क ] उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः
( गौ० ११ १ ३४ ) । उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं
प्रज्ञापनं हेतुः । साध्ये प्रतिसंधाय धर्ममुदाहरणे च प्रतिसंधाय तस्य
साधनतावचनं हेतुः । उत्पत्तिधर्मकत्वादिति उत्पत्तिधर्मकमनित्यं दृष्ट-
मिति (वात्स्या० १ । १ । ३४ ) । उदाहरणसाधर्म्यमुदाहरणबोष्यान्वय-
व्याप्तिः । ततोन्वयी हेतुर्ज्ञातव्यः ( गौ० दृ० १/१ । ३४ ) । अन्य
यिहेतुलक्षणं चान्वयिहेतुत्वमेव । तच्च अनुमितिकारणीभूतपराम-
र्शप्रयोजकशाब्दज्ञान कारणसाच्या विषयकशाब्दवीजनक प्रतीतान्त्रयसाध्य-
साधनवाचकहेतुविभक्तिमन्छन्दत्वम् । अस्यार्थप्रयोजनादिकं च हेतु-
अन्वयन्यायमिधायकावयवा-
शब्दव्याख्यानावसरे संपादयिष्यते ।
भिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्यायावयवत्वम् (चि०
२।७९ ) । [ ख ] ज्ञातान्वयन्याप्तिकहेतुबोधको हेत्ववयवः ( गौ०
वृ० १ । १ । ३४ ) । यथा पर्वतो वहिमान्धूमान्महानसबदित्यादौ घूमात्
इति शब्दः ।
 
न्या० को० ७