This page has not been fully proofread.

न्यायकोशः ।
 
९५७
 
प्राक्कालीनत्वम् । गोषु दुग्धासु गत इत्यादावतीतार्थ
ककृत्स्थल उत्तर-
कालीनत्वं संबन्धतया भासत इति । एवम् पाथसि पीते तृषा शाम्यति
इत्यादाबतीतार्थककृत्समभिव्याहारात्कार्यकारणभावोपि संबन्धतया मासत
इत्यादिकमूहनीयम् । अत्र सप्तम्यर्थे समानकालीनवे गोविशेषणकर्मता-
विशेषणस्य गोदोहनस्यान्वयः । इत्थं च तादृशगोदोहनसमानकालीना-
तीसगमनानुकूल कृतिमान् इत्यर्थः ( का० व्या० पृ० १२ ) । अथ वा
समभिव्याहृतदोहनादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं
क्रियान्तरे संबन्धः इति ( ग० व्यु० का० ७ पृ० ११७ ) । द्वितीयं
तु दैशिकसामानाधिकरण्यम् । यथा इदं द्रव्यं गुणकर्मान्यत्वे सति सत्त्वात्
( ग० अवयवे ) इत्यादौ सतिसप्तम्यर्थः । अत्र सति इत्यनन्तरं सतः
इत्यध्याहार्यम् । अन्यथा लक्षणीयक्रियाया अभावेनोक्तसूत्राविषयतया
सप्तम्यनुपपत्तेः । तथा च तत्र अस्धातोरर्थ आधारता । गुणा-
न्यत्वाद्याधारतायाश्च सत्ताधारतायां तद्वनिष्ठत्वं संबन्धतया भासत इति
चिन्तामणिकारोक्तसामानाधिकरण्यलाभ निर्वाह (ग० व्यु० का० ७
पृ० ११७ ) । तथा चात्र गुणकर्मान्यत्वसमानाधिकरणसत्त्वात् इति
शाब्दबोध: । एवं द्रव्यकर्मान्यत्वे सति सामान्यवान् गुणः इत्यादावपि
बोध्यम् ( म०प्र० पृ० ६-७ ) ।
 
सम् – ( अव्ययम् ) १ सम्यगर्थः । २ प्रकर्षः । ३ संगतिः । ४ शोभनम्
( शब्दच० ) । ५ समुच्चयः ( हेमच० )।
 
समनियतत्वम् - व्याप्यत्वे सति व्यापकत्वम् ( ग० अव० ) । यथा
लक्ष्यतावच्छेदकसमनियतो धर्मः असाधारणधर्मः इत्यादौ गोर्लक्षणस्य
सास्त्रादिमस्वस्य लक्ष्यतावच्छेदकी भूतगोत्वसमनियतत्वम् यथा वा
अभिधेयत्वस्य पदार्थत्वसमनियतत्वम् ( त० दी० १) ।
 
समभिव्याहारः – १ [ क ] सहोचारणम् ( म० प्र० ४ पृ० ५६ )।
यथा यत्पदं यत्पदेन सह यादृशानुभवजनकं तत्पदस्य तत्पदसमभि-
व्याहारस्तादृशान्वयबोध आकाङ्क्षा इत्यादौ समभिव्याहारशब्दस्यार्थः
( न्या० म० ४ पृ० २१ ) । [ ख ] पदानां पूर्वापरीभावः । यथा
 
-