2023-02-20 00:57:24 by ambuda-bot
This page has not been fully proofread.
९५६
न्यायकोशः ।
कटे शेते गुरौ बसति इत्यादि । द्वितीयस्योदाहरणं मोक्षे इच्छास्तीति ।
तृतीयस्योदाहरणं तु तिलेषु तैलम् इति । अत्राद्यं सामीप्यसंबन्ध निबन्ध-
मम् । आधेयव्याप्यतावच्छेदकयत्किंचिदवयवकम् इति यावत् । द्वितीयं
विषयतासंबन्धनिरूपकम् । तृतीयमाधेयव्याप्यतावच्छेदकयावदवयष-
कम् । कटे शेते इत्यत्र परम्परया कटाभिन्नाश्रयकः शयनानुकुलो व्यापारः
इति बोधः । एवमन्यत्राप्यूयम् (वै० सा० ६० सुबर्थ० पृ० ८६) ।
२ कचित् निरूपकत्वम् निरूप्यत्वं वा सप्तम्यर्थः । यथा भूतले बर्तते
घटः इत्यादौ भूतलपदोत्तरवर्तिसप्तम्या अर्थः । यथा वा इति हेतुस्तदुद्भवे
( काव्यप्र० १) इत्यादौ हेतुतायाम् उद्भवपदार्थोत्पत्तिनिरूपितत्वं सप्तम्या
बोभ्यते । ३ कचित् अवच्छेद्यता विशेषः । यथा वीणायां शब्दः कर्णे
शब्द: वृक्षाप्रे कपिसंयोगः इत्यादौ सप्तम्यर्थः (ग० ब्यु० का० ७ १०
११६ ) । ४ निमित्तत्वम् । यथा चर्मणि द्वीपिनं हन्ति मशकनिवृत्तौ धूमं
करोति इत्यादौ सप्तम्यर्थः ( का० व्या० पृ० ११) । मन्त्र चर्मेद्देश्य-
कद्वीपिकर्मकहननकर्ता इति बोधः । अधिकं तु निमित्तत्वशब्दव्याख्याने
दृश्यम् । ५ उत्पत्तिः । यथा शरदि पुष्यन्ति सप्तच्छदाः इत्यादौ
सप्तम्यर्थः । अत्र शरदुत्पत्तिकपुष्पाश्रयाः सप्तच्छदाः इति वाक्यार्थः
( का० व्या० पृ० १२ ) । ६ समानाधिकरणत्वम् । तच्च द्विविधम्
कचित् कालिकम् कचित्तु दैशिकम् । तत्राद्यं समानकालीनत्वादिकम् ।
यथा गोषु दुह्यमानासु गतः इत्यादौ ( का० व्या० पृ० १२) ।
यथा वा घने वर्षति चौर आगतः इत्यादौ सप्तम्यर्थः ( म०प्र०
पृ० ६-७ ) । अत्र वृष्टिसमानकालीनागमनाश्रयश्चौरः इति बोधः
( म० प्र० १० ७ ) । अत्रार्थे यस्य च भावेन भावलक्षणम् (पाणि
२ । ३ । ३७ ) इत्यनेन सूत्रेण सप्तम्यनुशिष्यते। सूत्रार्थस्तु यस्य धर्मेण
धर्मान्तरं निरुक्तस्वसामानाधिकरण्येन प्रतिपाद्यते तत्र सप्तमी इति ( का०
व्या० पृ० १२ ) । यद्विशेषणकृदन्तार्थविशेषणतापत्रक्रियया किया-
न्तरस्य लक्षणं व्यावर्तनं तद्वाचकपदात्सप्तमी इति वा । अत्रेदमधिकं
विज्ञेयम् । वर्तमानार्थककर समभिव्याहारस्थले गोषु दुधमानासु गत इत्यादौ
समानकालीनत्वम् । गोड दोग्धव्यासु गत इत्यादिभविष्यदर्थककस्थळे