2023-02-20 00:57:24 by ambuda-bot
This page has not been fully proofread.
348
न्यायकोशः ।
ससंदशस्तोमः - एकस्मिन्सूक्ते विद्यमानानां तिसृणामृच ब्राह्मणोक्तविषानेन
-
सप्तदशधाम्यासः (जै० न्या० अ० ७ पा० ३ अधि० ३ ) ।
-
सप्तभङ्गिनयः – स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः
स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्यः
इति न्यायः ( सर्व० सं० पृ० ८२ आई० ) ।
०
सप्तमी - ( विभक्तिः ) अधिकरणतायामाधेयत्वे वा शक्ता सुपू ( श० प्र०
को० ६६ टी० पृ० ७६) । यथा गेहे पचति इत्यादौ गेहपदोत्तर-
वर्तिनी सप्तमी । अत्र आधेयत्वं सप्तम्यर्थः । तस्य च क्रियायामन्वयः ।
भुवि गच्छति इत्यादौ तु कर्तृघटितपरंपरासंबन्धावच्छिनाधारत्वमेव
सप्तम्यर्थः ( ग० व्यु० का० ७ पृ० ११६ ) । गेहे पचतीत्यत्र
सप्तमीत्वं च पचधास्वर्थतावच्छेदक रूपावच्छिन्नधर्मिकस्वार्थाधेयत्वबोधा-
नुकूलसुप्सजातीयत्वम् । चैत्रधर्मिकस्वार्थाधिकरणत्वान्वयबोधकसुप्-
समानानुपूर्वीकत्वं वा इत्यपि बदन्ति । ग्राममध्यास्ते इत्यादी अधिकरणत्वं
बोधयन्त्यपि द्वितीयादिः न तत्र शक्ता । ग्रामाय गच्छति इत्यादौ
कर्मत्वादिष्वेव चतुर्थ्यादिः शक्ता इति द्वितीयाचतुर्थ्यादीनां निरासः
( श० प्र० लो० ६६ टी० पृ० ७६ ) । अथ सप्तम्यर्थ उच्यते ।
१ न्यायमते आधारत्वम् आधेयत्वं वा सप्तम्यर्थः । तचाखण्डोपाधिः
इति प्राच आहुः ( बै० सा० द० पृ० ८६ ) । नव्यास्तु स्वरूप-
संबन्ध विशेष एव तत् इत्याहुः । अत्र विप्रतिपत्तिः सप्तम्यर्थ आधारस्वं
बा मधेयत्वं वा इति । तत्र अधिकरणत्वमात्रं सप्तम्यर्थः । तथा च
मूतलनिष्ठाधिकरणतानिरूपको घटः इत्याकारको बोषः । तत्र निष्ठत्वम्
निरूपकत्वं च संसर्गमर्यादया भासते इति प्रायो नैयायिका आहुः ।
मव्यनैयायिकास्तु प्राग्भिरुक्तं युक्तं न । तथाङ्गीकारे तु निरूपकत्व-
संबन्धस्य वृत्यनियामकत्वेन प्रतियोगितानवच्छेदकत्वात् भूतले न घटः
इत्यादौ नअर्थान्वयासंभवः । अतः तत्राधेयस्वमात्रं सप्तम्यर्थः । तथा चं
नूतलनिरूपिताधेयावाश्रयो घटः इत्यन्वयबोधः स्वीकार्यः । तत्र निरूपि
तत्वम् आश्रयत्वं च संसर्गः । इत्थं च भूतले म घटः इत्यादी आश्रयता