This page has not been fully proofread.

न्यायकोचः ।
 
९५३
 
लेपभाजश्वतुर्थायाः पित्राद्याः पिण्डभागिन: । पिण्डदः सप्तमस्त्वेषां
सापिण्ड्यं साप्तपौरुषम् ॥ ( मत्स्यपु० ) इति । तत्र शरीरावयवान्वय-
सापिण्ड्यम् आशौच विवाह दायग्रहण एतेषु त्रिष्वप्युपयुज्यते इति हेमादि-
माधवविज्ञानेश्वरस्मृति चन्द्रिकाकार मित्र मिश्रकमलाकरादीनां मतम् । अत्रो-
क्तम् वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता
तस्सापिण्ड्यं निवर्तते ॥ इति धर्मसिन्धौ धृतं वाक्यम् । त्सतमा-
दूर्ध्वं मातृतः पितृतस्तथा ( याज्ञव० ११५३) इति । तथा च पित्रा-
दयः षट् सपिण्डाः पुत्रादयश्च षद् आत्मा च सप्तमः ( मिता० १ । ५३ )
इति । कामधेनुहारलता कल्पत रुपारिजातकारादीनां तन्मतानुसारिजीमूत-
वाहनस्य च मतं तु सपिण्डता हि विषयभेदेन त्रिविधा आशौचोप-
योगिनी विवाहोपयोगिनी दायग्रहणोपयोगिनी च । तथा च शरीरा-
न्वयसापिण्ड्यमाशौचे विवाहे चोपयुज्यते । निर्वाप्यपिण्डान्वयसापिण्डयै
तु दायग्रहणे उपयुज्यते इति । यथोदाहृतं ( शु० त० ) रघुनन्दनेन
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्त्वेषां
सापिण्डय सातपौरुषम् ॥ ( मत्स्यपु० ) इति । हारलतायां कूर्मपुराणं
च सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकमावस्तु जन्मना-
नोरवेदने ॥ पिता पितामहश्चैव तथैव प्रपितामहः । लेपमाजश्चतुर्थाद्याः
सापिण्ड्यं साप्तपौरुषम् ॥ इति । भ्रात्रादीनामपि सापिण्ड्यमुक्त बौधाय-
मेम प्रपितामहः पितामहः पिता स्वयम् सोदर्यभ्रातरः सवर्णायाः पुत्रः
पौत्रः प्रपौत्रो वा एतान विभक्तदायादान् सपिण्डानाचक्षते । विभक्त
दायादान् सकुष्यानाचक्षते असत्स्वङ्गजेषु तद्गामी हार्यो भवति इति ।
किंच स्त्रीणामपि भर्तृसापिण्डयेन सापिण्ड्यम् । अनूढायाः कन्यायास्तु
त्रिपौरुषं सापिण्ड्यम् । तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्व-
भोक्तृत्वान्यतरवस्वमाशौचसापिण्डयम् । साक्षात्परंपरया वा सप्तमपर्यन्त
देहसंबन्धवस्वं विवाहसापिण्यम् । त्रिपुरुषपर्यन्तं देयपिण्डदातृत्वभोक्ता-
स्वान्यतरवत्वं दायग्रहणे सापिण्डयम् इति वदेशीयानां जीमूतवाहना-
दीनां मतं बोध्यम् (वाच ० ) । अधिकं तु तत्तद्धर्मशास्त्रप्रन्थेष्वन्वेषणी-
यम् इवलं विस्तरेण ।
 
१२० म्या०