This page has not been fully proofread.

न्यायकोशर ।
 
साधकं हेत्वन्तरं प्रतिपक्षः इत्युच्यते । स च घूमवत्त्वे हेतौ नास्त्येव ।
अनुपलम्मात् ( त० मा० प्रमाणनि० पृ० १४ ) इति ।
 
-
 
सद्यः - ( अध्ययम् ) १ तत्क्षणम् । यथा सद्यः शौचं विधीयते इत्यादौ ।
२ कचित् एकं दिनम् ।
 
सन् – ( धात्वंश: प्रत्ययः ) अयं धातुप्रकृतिकः प्रत्ययः । [ क ] कर्तु-
रिच्छा ( तर्का० ४ पृ० ११ ) । स्वसामानाधिकरण्यस्व निष्ठविषयता-
निरूपितविषयित्वोभयसंबन्धेन प्रकृतधात्वर्य प्रधानी भूतव्यापार
विशिष्टेच्छा
इत्यर्थः । यथा घटं चिकीर्षति इत्यादौ सन्प्रत्ययार्थः । यथा वा
पिपठिषति इत्यादौ सन्प्रत्ययार्थः ( ल०म० ) । अत्रेदं बोध्यम् । सन्नुत्त-
राख्यातस्याश्रयत्वे लक्षणा । सविषयकार्थकप्रकृतिकाख्यातस्य आश्रयत्वे
लक्षणाया घटं जानाति इत्यादी कृप्तत्वात् ( तर्का० ४ पृ० ११ ) इति ।
अत्र सन्नर्थेच्छायां धात्वर्थस्य कर्मत्व समानकर्तृकत्व एतदुभयसंबन्धेन वि-
शेषणता बोध्या ( ल० म० ) । [ ख ] इच्छा । यथा पार्क चिकीर्षति
ओदनं बुभुक्षते इत्यादौ सन्प्रत्ययार्थः । अत्र सन्प्रत्ययार्थेच्छायां द्विती-
यान्तेन लभ्यस्य पाकादिविशेष्यताकत्वस्य स्वरूपसंबन्धेन धात्वर्थस्य
तु कृत्यादे: स्वसाध्यत्वादिप्रकारिनिष्ठस्व समानकर्तृकत्षसंबन्धेन अन्वयात्
पाकधर्मिका निरुक्तसंबन्धेन कृतिमती या इच्छा तद्वान् इत्यादिरर्थः ।
अत्र समानकर्तृकत्वस्य नित्रेशात् अन्यदीयकृति विषयपाकादाविच्छावति
अयं चिकीर्षति पिपक्षति इत्यादिको न प्रयोगः इति चिन्तामणिकृत
आहुः । सौन्दडस्तु प्राह पाकं चिकीर्षतीत्यादौ द्वितीयार्थस्य विषयत्वस्य
मूलधास्वर्थ एवान्वयः । तदर्थस्य तु समानकर्तृकत्वविषयत्वाम्यां
सनर्येच्छायाम् । तथा च पाकविषयताककृतिस मान कर्तृकत द्गोचरेच्छा-
वान् इत्यादिरेषार्थः । कारकविभक्तेः क्रियायामेव स्वार्थबोधकत्वात् ।
अत एव गृहं तिष्ठासति इत्यादिको म प्रयोगः । स्थितेर्गृहकर्मकत्व-
बाधात् । अन्यथा गृहधर्मिकां स्थितिप्रकारकेच्छां बोधयन्नयमेव प्रमाणं
स्यात् । न तु गृहे तिष्ठासति इत्यादिः (श० प्र० लो० १०९ टी० पृ०
१७०-१७१) इति । [ग] भास्वर्थविशेष्यकेच्छा । यथा पार्क