2023-02-20 00:57:23 by ambuda-bot
This page has not been fully proofread.
१५०
न्यायकोशः ।
•
सद्धेतुः – (हेतुः ) [क] पञ्चरूपोपपन्नो हेतुः । पञ्च रूपाणि तु पक्षसत्त्वम्
सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधित विषयत्वम् असत्प्रतिपक्षत्वं चेति ।
अत्रेदं बोध्यम् पञ्चरूपोपपन्न एव हेतुः स्वसाध्यं साधयितुं क्षमते न त्वेके-
नापि रूपेण हीनः ( त० भा० प्रमाणनि० पृ० १३) इति । [ख]
ब्याप्त्यादिविशिष्टहेतुः ( नील० २ पृ० २४ ) । [ग] प्रमितव्याप्ति-
पक्षधर्मताको हेतुः । स्वसाध्या नुमित्यौ पथिकप्रमात्मकपरामर्शबान् इति
यावत् ( ग० सत्प्र० ) । यथा पर्वतो वह्निमान् धूमात् इत्यादौ धूमः
सद्धेतुः । अत्रायमर्थः । पर्वतत्वसामानाधिकरण्येन बहेः साध्यत्वविवक्षाया
मेव धूमः सद्धेतुर्भवति न तु पर्वतत्वावच्छेदेन बढ़े: साध्यस्वविवक्षायां
धूमः सद्धेतुः । तत्र पर्वतत्वावच्छेदेन वहेरभावात् इति । अयं भावः ।
अवच्छेदकावच्छेदेन वहे साध्यले सामानाधिकरण्येन वहषभावस्य
प्रसिद्धत्वेन तस्य च बाधरूपत्वात्तत्रत्यो हेतुर्हेत्वाभास एव भवति । अतः
सामानाधिकरण्येनैव वहे: साध्यत्वं विवक्षणीयम् । तथा च सति तत्र
सामानाधिकरण्येन वयभावस्य सस्त्रेपि तद्विषयकनिश्चयस्य तत्रत्य-
साध्यवत्ता बुद्धि प्रत्यप्रतिबन्धकत्वेन हेत्वाभासलक्षणानाकान्तत्वान तस्य
बाधत्वम् । अवच्छेदकावच्छेदेन वयभावविषयकनिश्चयस्य प्रतिबन्धक-
त्वेपि तादृशवढ्यभावस्य चाप्रसिद्धत्वेन तत्र न कोपि हेत्वाभासदोषः
इति सामानाधिकरण्येन वह्विसाध्यकस्थलीयधूमः सद्धेतुर्भवति इति
सूक्ष्मदर्शिभि: सुधीभिर्विभावनीयम् ( ग० २ हेत्वा० सामान्यनि० ) ।
अत्रेदं बोध्यम् । उक्तानि पञ्चरूपाणि घूमवस्त्रादाबन्वयव्यतिरेकिण्येव
हेतौ विद्यन्ते । तथा हि ( १ ) घूमवत्त्वं पक्षस्य पर्वतस्य धर्मः । तस्य
पर्वते विद्यमानत्वात् । ( २ ) एवं सपक्षे सत्त्वम् । सपक्षे महानसे
विद्यमानत्वात् । (३) एवम् विपक्षात् महाहदात् व्यावृत्तिः । तत्र
धूमो नास्ति इति । (४) एवम् अबाधितविषयं धूमवत्त्वम् । तथा हि
धूमवश्वस्य हेतोर्विषयः साध्यो धर्मः । तथाग्निमत्त्वम् । तत्केनापि
प्रमाणेन न बाघितम् न खण्डितम् इत्यर्थः । (५) एवम् असन्
प्रतिपक्षो यस्य इत्मसत्प्रतिपक्षं धूमबत्वम् । तथा हि साध्यविपरीत-