This page has not been fully proofread.

99
 
नवीनाः पुमरेवं बर्णयन्ति । यासंबन्धिसाध्यांमाजव्याप्यहेलन्तरस्य सं
पक्षेस सत्प्रतिपक्ष इत्यर्थ: ( नील० २ पृ० २६ ) इति । सत्प्रतिपक्ष-
शब्दस्य व्युत्पत्यादिकं प्रदर्शयन्ति साध्याभावसाधकहेत्वन्तरं प्रतिपक्षः
तवान् सत्प्रतिपक्षः (त० कौ० ) इति । २ ( हेतुदोषः ) [ क ]
पक्षे साभ्यधीप्रतिबन्धकपरामर्शः । यथा जलमुष्णं स्पर्शत्वादित्यादौ
भेदमुष्णम तेजस्स्वादित्यादिः ( म्या० म० २ पृ० २१ ) ( मा०प०
को० ७८) । [ ख ] साध्याभावव्याप्यवत्पक्षः साध्यवदन्यत्वव्याध्यव-
त्पक्षः पक्षनिष्ठः
 
साध्याभाव
व्याप्यः पक्षनिष्ठः
 
साध्यवद्वेदव्याप्यः
 
( दीधि ० ) ( दि० २ पृ० १६० ) । साध्यषदवृत्तिव्याभ्यवरपक्षः
पक्षनिष्ठः साध्यवदवृत्तिव्याप्यः पक्षवृत्त्यभावप्रतियोगित्वव्याप्यवसाध्यम्
साध्यनिष्ठः पक्षवृत्त्यभावप्रतियोगित्वव्याप्यश्च । यथा हृदो वह्निमान्
घूमात् इत्यादौ वह्नयभावव्याप्यवद्धदादिः सत्प्रतिपक्षः ( ग० २) ।
एतेषामष्टानां सत्प्रतिपक्षस्वरूपाणामन्यतमत्वादिनामुगमकरणान्न सत्प्रति-
पक्षविभागव्याघातः ( दि० २ हेत्वा० पृ० १६० ) इति ।
सत्यम् – सत्यशब्दो द्रष्टव्यः ।
 
सदाचार:-[क] मन्वायुक्त देशप्रचलिताचारः । अत्र व्युत्पत्तिविग्रहो
साधवः क्षीणदोषाश्च सच्छब्दः साधुबाचकः । तेषामाचरणं यत्तु सदा-
चारः स उच्यते ॥ इति । मनुमा चेत्थमुक्तम् सरस्वतीदृषद्वत्योर्देवनयोर्यद-
तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ तस्मिन् देशे य
आचार: पारंपर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥
( मनु० अ० २ लो० १७ - १८ ) इति । यथा वेदः स्मृतिः सदाचारः
स्वस्य च प्रियमात्मनः । एतचतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥
( मनु० २११२) इत्यादौ सदाचारशब्दस्वार्थ: । स्वधर्मत्यागे हानिरुक्ता
सस्मात्स्वधर्म न हि संत्यजेव न हापयेचापि तथात्मवंशम् । यः संत्यजे-
थापि बिजे हि धर्म तस्मै प्रकुष्येत दिवाकरथ ॥ ( वामनपु० अ० १४)
इति ।[ख] शिष्टाचारः । यथा आधुनिकशिष्टानामाचारः । तथा च
सवचिन्तामणी स्मृति: यस्मिन्देशे य आचार: पारंपर्यक्रमागतः ।
भुतित्यक्रोिधेन सदाचारः स उच्यते ॥ (चि० १ मालवा●
ऋ० ११२) इवि ।