This page has not been fully proofread.

तृतीयावृत्तावुपोद्भातः ।
 
नवा विचाराः सिद्धान्ताश्च न मनसः पुरतः प्रकटीभवन्ति । नष्टेषु च तेषु
तत्तच्छास्त्राणां प्रगतिरपि मन्दा भवतीति महत्येषानर्थपरंपरा ।
 
५ नैकविधेष्वाध्यात्मिकेषु भौतिकेषु च शास्त्रेषु प्रतिदिनं वर्धमानया
ग्रन्थसामग्र्या नवनवैरुत्पद्यमानैः प्रतिभा विलासै: प्रगुणीभवद्भिश्च कल्पनात-
रङ्गैर्देशान्तरनिवासिनां धर्मान्तरानुयायिनां विदुषां विविधैश्च विचारैस्तथा
नितरामिदानीं समुपचितो ज्ञानराशिर्यधा मुमहता यत्नेन दीर्घकालमवीयानेन
बुद्धिविभत्रशालिनापि जनेन न सर्वामु प्रधानामु कलामु न वा सर्वेषु प्रधा-
नेषु शास्त्रेषु प्रतीष्टः प्रवेश: कर्तु पार्यत इति यद्यपि यथार्थमेव तथापि
नैतावता प्रमाणभूतानां प्राचीन ग्रन्थानां माहात्म्यमुपयुक्तता वा परिहीयते ।
" भिन्नभिन्नानां शास्त्राणां भिन्नभिन्नेषु कोशग्रन्थेषु प्रतिक्षणं शास्त्रेपूपलभ्य-
मानानां शब्दानामुपयुक्ता विस्तृता अर्था व्याख्यानानि च निवेशयितव्यानीति
न किमपि प्रयोजनं ग्रन्थानां पकिशोध्ययनेन पाटकरणेन वा निरर्थकशरीर-
कृशीकरणहेतुना, यदा यदा तु केनापि पारिभाषिकेण संज्ञाशब्देन वा प्रयो-
जनं तदा कोशग्रन्थेषु तस्यार्थविस्तरोवलोकनीयः" इति यः कोपि जनो
ब्रवीति चेद्रवीतु नाम, वयं तु मन्यामहेहर्निशमुपयुज्यमानाः प्रधानाः संज्ञा-
शब्दाः परिभाषाश्च शास्त्रग्रन्थानामध्ययनमध्यापनं वा कुर्वद्भिर्जिह्वाग्र एव धार-
णीयास्ते पामर्थः स्वारस्यं विवरणं चैतानि मनसा सततं विभावनीयानि न
तदर्थं कोशादिग्रन्थानामवलोकनं करणीयम् । विशेषतो न्यायव्याकरणादि-
शास्त्राणां गीर्वाणवाणी लिखितसकलग्रन्थानां परिभाषा: संज्ञाश्च तथा दुर्बोधा
गहनार्थाश्च वर्तन्ते यथा प्राथमिकानां ग्रन्थानामध्ययनं विना केवलं कोश-
ग्रन्थादिसाहाय्येन तदर्थावबोधं प्रति क्रियमाणो यत्नो बधिरं प्रति क्रिय-
माणस्य विविधरसपरितस्य सुरमणीयस्योदयनादिकथावर्णनस्य विस्तर इवा-
किंचित्कर एव । संक्षेपतो वक्तव्ये कोशग्रन्थेषु वर्तमानाः संज्ञाशब्दाः परि-
भाषाश्च विदुपामापणस्थितभाण्डवत्परमार्थतोनुपयुक्ता एव वर्तन्ते इत्यस्मि-
न्वस्तुनि न कोपि विवादः ॥