This page has not been fully proofread.

52
 
न्यायपारिभाषिकशब्दावली
 
कालिकसम्बन्धः
 
Temporal qualification as a
 
delimiting relation
 
सर्वस्य पदार्थस्य काले वर्तमानत्वे कालिक:
सम्बन्धः, अत्र च सर्वाधारः काल इति नियमो
नियामकः। जन्ये पदार्थसत्त्वेऽपि कालिक एव
सम्बन्धः तत्र जन्यानां कालोपाधित्वमिति नियमो
नियामकः । नित्येषु कालिकायोग इति नियमेन
नित्यपदार्थेषु न कोऽपि पदार्थः कालिकसम्बन्धेन
वर्तते । तर्क. स. सर्व. पृ० 48 । कालिकसम्बन्धेन
जायमानकार्यं प्रति तादात्म्यसम्बन्धेन कालस्य
कालान्तर्भावेण कारणत्वं बोध्यम् - तर्क. सं. सर्व.
batshaan bengavamo पृ० - 156 । कालिकनामकः सम्बन्धः कश्चिद्
barisilgmanon ad of वृत्तिनियामकः, कश्चिद् वृत्त्यनियामकः अस्ति।
वृत्तिनियामकेन कालिकसम्बन्धेन काले सर्वं वर्तते ।
स च कालः महाकालरूपः, खण्डकालरूपश्च ।
"काले सर्वम्" इति महाकालविषयिणी प्रतीतिः -
 
-
 
1
 
न. न्या. भा. प्र. -3 ।
 
B
 
W
 
87
 
काल + ठक् = कालिकम्- कालिकसंसर्गेण
कालिकविशेषणताविशेषसंसर्गेण वा नित्यानित्ययोः
काले वर्तमानत्वम्, मतविशेषे च "नित्येषु
कालिकायोगात्" इति न्यायेन कालः जन्यमात्रं
क्रियामात्रं वा भवति, अर्थाद् यावज्जन्यपदार्थाः
महाकाले तिष्ठन्ति, महाकालातिरिक्तनित्येषु
कालिकसम्बन्धेन न कस्यापि वृत्तित्वम् । जलहृदस्य
जन्यत्वात् तत्र कालिकसम्बन्धेन घटस्य विद्य-
मानत्वम्, संयोगसम्बन्धेन जलहूदे वह्निधूम-
योरविद्यमानत्वेऽपि कालिकसम्बन्धेन तत्र तयो-