This page has not been fully proofread.

44 न्यायपारिभाषिकशब्दावली
 
उपलब्धिसमः
 
$ 35
 
उपसर्गः
 
उद्देश्यत्वम्
 
उद्देश्यम्
 
उद्देश्यतावच्छेदकम्
 
-
 
1
 
Balancing the perception
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ।
न्या. सू. 5/1/27. निर्दिष्टस्य साधनस्याभावेऽपि
साध्यधर्मोपलब्ध्या प्रत्यवस्थानमुपलब्धिसमः।
न्या. भा. पृ० सं. 435 । "अवधारणतात्पर्यं
वादिवाक्ये विकल्प्य यत् । तद् बाधात् प्रत्यव-
स्थानमुपलब्धिसमो हि सः" ता. र. का. - 25 ।
वादिवाक्यस्यावधारणतात्पर्यं तावदारोप्य तद्विशेषं
विकल्प्य सर्वथावधारणबाधेन प्रत्यवस्थान-
मुपलब्धिसमः । ता. र. सा. सं. पृ० - 192 ।
 
Preverb
 
उपसर्गाः क्रियायोगे. पा. सू. 1/4/59। प्र परा
अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि
अधि अपि अति सु उत् अभि प्रति परि उप एते
प्रादय: उपसर्गाः भवन्ति ।
 
Subjectness
 
विषयताविशेषत्वम् यथा पर्वतो वह्निमान्
इत्यनुमितौ पर्वतस्योद्देश्यत्वम् । विशेष्यत्वमेव
उद्देश्यत्वमिति नामान्तरम् - न. न्या. भा. प्र. ।
Subject
 
विशेष्यैव उद्देश्यमिति नामान्तरम् - न. न्या.
भा. प्र ।
 
Limitor of subjectness
उद्देश्यतावृत्तिधर्मः। उद्देश्ये यद् विशेषणतया
प्रतीयते तद उद्देश्यतावच्छेदकम् ।