This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली 35
 
नियतसापेक्षतया वृत्तिताधिकरणतयोश्च परस्परं
निरूप्यनिरूपकभावोऽस्ति । वृत्तितानिरूपिता अधि-
करणता अधिकरणतानिरूपिता च वृत्तितेति । ततश्च
"कुण्डे वदरम्" इति वाक्यस्य "कुण्डनिरूपित-
वृत्तितावद् वदरम्" किंवा कुण्डनिष्ठाधिकरणता-
निरूपिताधेयतावद् वदरम्" इत्यर्थः प्रतीयते।
एवं "वदरवत् कुण्डम्" इत्यस्य प्रयोगस्य "कुण्डं
वदरनिरूपिताधिकरणतावत्" इति, किंवा
-) वदरनिष्ठवृत्तितानिरूपिताधिकरणतावत्" इत्यर्थः
 
-प्रतीतिसाक्षिकः
 
पर्यवसीयते ॥ अधिकरणत्वं च अधिकरणमिति
स्वरूपसम्बन्धविशेषः। यथा
घटवद्भूतलमित्यादौ भूतले घटाधिकरणता। न.
न्या. भा. प्र. पृ० 3 ।
 
- Substratumness relation
 
15
 
1.
 
अधिकरणतासम्बन्धः
 
आत्माश्रयः
 
अधिकरणता सम्बन्धेन सर्वेपदार्थाः स्वाधिकरणे
तिष्ठति, आधेयादीनाम् घटादीनाम् आधारेषु
भूतलादिषु वर्तमानत्वम् । आधारोधिकरणमिति
पाणिनिसूत्रम् । तेन च अधिकरणशब्दस्य
आधाररूपार्थः। या एव आधारता सा एव
अधिकरणता। आधारतासम्बन्धेन अधिकरणता-
सम्बन्धेन वा सर्वे स्वाधिकरणे वर्तन्ते । यथा आधेय:
घटः आधारे भूतले वर्तते । "अधिकरणतानाम
। सम्बन्धो विद्यते किल । सर्वे तेनैव वर्तन्ते
स्वाधिकरणेऽर्थतः" ॥ स. भा. ।
 
-
 
Thdominol
Fallacy of self - dependence,
Ignoratio elenchi
 
स्वज्ञानसापेक्षज्ञानविषयत्वम् । स्वग्रहसापेक्षग्रहकः,