This page has not been fully proofread.

34 न्यायपारिभाषिकशब्दावली
 
jay
 
--
 
1 Str-op fup
 
-IP
 
(
 
अधिकरणम्, शु
 
आधारः
 
pre
 
अधिकरणता
 
वृत्तिरभावः प्रतियोगिसमानाधिकरणो भवति ।
यथा वृक्षे कपिसंयोगाभावः, वृक्षे कपिसंयोगः
कपिसंयोगाभावश्चास्ति ।" न. न्या. भा. प्र. ।
अव्याप्यवृत्तिः (दैशिकाऽव्याप्यवृत्तिः) । तेन
रूपादीनां कालिकाऽव्याप्यवृत्तित्वेऽपि न क्षतिः ।,
अव्याप्यवृत्तित्वमत्र किञ्चिदवच्छेदेन स्वा-
वच्छेदकसम्बन्धेन स्वाधिकरणे अन्यावच्छेदेन
वर्तमानो यः स्वावच्छेदकसम्बन्धावच्छिन्नप्रति-
योगिताकोऽभावस्तत्प्रतियोगित्वम् । भेर्यवच्छेदेन
समवायेन शब्दाधिकरणे आकाशे शून्यदेशावच्छेदेन
स्वरूपसम्बन्धेन वर्तमानो यः समवायावच्छिन्न-
प्रतियोगिताकः शब्दाऽभावस्तत्प्रतियोगित्वस्य
शब्दे सत्त्वात् शब्दोऽव्याप्यवृत्तिरिति किरणा.
टीका (न्या. सि. मु.) पृ०- 98 ।
Substratum
 
mar
 
y vily
 
-
 
यत्र तु यद् वर्तते तत्तस्य अधिकरणम् आधार आश्रय
इति च उच्यते । यथा कुण्डे वदरं वर्तते, गृहे पटो
वर्तत इत्यत्र कुण्ड गृहञ्च आधार इति । न. न्या.
भा. प्र. पृ०- 3 । आधारोऽधिकरणम् - पा. सू. ।
- Substratumness
 
यञ्च यस्य अधिकरणम्, तस्मिन् तन्निरूपिता
अधिकरणता वर्तते। यथा "कुण्डे वदरं वर्तते, गृहे
पटो वर्तते इत्यनयोरुदाहरणयोः कुण्डनिरूपिता
वृत्तिता वदरे, गृहनिरूपिता आधेयता च पटे वर्तते ।
एकस्य वृत्तितायामपरस्य अधिकरणता अवश्यम्भा-
विनी। एवञ्च एकस्याधिकरणतायामपरस्य वृत्तिता
नियता। अत एव वृत्तिताधिकरणतयोः परस्पर-