This page has not been fully proofread.

PADEIR
 
wesmolimi
 
अवच्छेदकत्वम्,
 
अवच्छेदकता
 
न्यायपारिभाषिकशब्दावली 27
 
रूपेण धर्मेणावच्छिन्ना इति घटत्वं कार्यता-
वच्छेदकम्। अत्रेदं बोध्यम् -एकस्मिन् पदार्थे
बहवो धर्माः सन्ति। तत्र लघुधर्म एव अवच्छेदको
भवितुमर्हति, न तु सर्वे धर्माः । स च धर्म तदाश्रयस्य
पदार्थस्य येन रूपेण परिचायकः, तेनैव रूपेण
अवच्छेदको भवति । यथा घटं प्रति दण्डस्य
कारणत्वे विवक्षिते दण्डे कारणता अस्तीति कृत्वा
दण्डत्वं दण्डस्य कारणतावच्छेदकं भवेत् । दण्डस्य
अभावत्वे विवक्षिते दण्डे प्रतियोगिताऽस्तीति कृत्वा
दण्डत्वं दण्डस्य प्रतियोगितावच्छेदकं भवेदिति-
न्या. द. वि. पृ०- 03 । सर्वेषु प्रतियोगिषु वर्तमानः,
तदन्यत्रावर्तमानः प्रतियोगिगतः कश्चन असाधारणो
धर्म एव प्रतियोगिताया नियामको भवति । स एव
नियामक: स एव अवच्छेदक इत्युच्यते - न. न्या.
भा. प्र. पृ०- 4 । यद्धर्मविशिष्टं कार्यं भवति स
धर्म: कार्यतावच्छेदकः । यद्धर्मविशिष्टं कारणं
भवति स धर्म: कारणतावच्छेदकः । यद्धर्मविशिष्टं
लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यद्धर्मविशिष्टे
साध्यसाधने भवतस्तौ धर्मो साध्यसाधनतावच्छेदक-
धर्मौ भवतः। यद्धर्मविशिष्टौ ब्याप्यव्यापकौ
भवतस्तौधर्मो व्याप्यप्यापकतावच्छेदकधर्मो
भवत: - त. सं. सर्व. पृ० - 21-22, अवच्छेदक-
पदस्य क्वचिद् विशेषणमित्यर्थः - न. न्या. भा.
प्र. पृ० - 07 ।
 
(1
 
-
 
Limitorness
 
अवच्छेदकत्वपदस्य विशेषणत्वमर्थः -न. न्या. भा.