This page has not been fully proofread.

22 न्यायपारिभाषिक शब्दावली
 
अननुभाषणम्
 
अज्ञानम्
 
S
 
अप्रतिभा
 
ialhoque
 
अन्वितमुपयुक्तमपुनरुक्तं कृतकार्यकरमभिधी-
यमानमधिकं नाम निग्रहस्थानम् - ता. र. सा. सं. ।

Silence
 
-
 
विज्ञातस्य परिषदा त्रिरभिहितस्याप्यऽप्रत्युच्चारण-
मननुभाषणम्। न्या. सू. 5/2/16. ज्ञातार्थं
प्राश्निकैर्वाक्यं त्रिरुक्तं नानुभाषते । योऽनुभाव्य
स्वमज्ञानं तस्यैवाननुभाषणम् ॥ ता. र. का - 13 ।
अ (न) नूद्य दूषणाभिधानम् - न्या. च. ।
 
Ignorance
 
DES
 
अविज्ञातं चाऽज्ञानम्। न्या. सू. 5/2/17. वादिना
त्रिरुक्ते प्राश्निकैर्ज्ञातेऽर्थे सत्यपि वादिवाक्ये
प्रतिवादी स्वज्ञानमाविष्करोति न ज्ञायते मयेति, तदा
तस्याज्ञानं नाम निग्रहस्थानं भवति ता. र. सा.
सं। ज्ञातेऽपि वादिवाक्यार्थे प्राश्निकैस्तत्र चेत्
परः। स्वाज्ञानमुद्भावयति तदाज्ञानेन निग्रहः ॥ ता.
र. का - 14 । स्वीयविपर्ययज्ञानाविष्करणमज्ञानम्-
न्या. च. । यद् वाक्यं त्रिरभिहितमपि परिषदावगतार्थं
प्रतिवादी प्रत्युच्चारयन्नपि नार्थतः सम्यगधिगच्छति
तदज्ञानं नाम प्रतिवादिनो निग्रहस्थानम् - न्या. सा ।
Non - ingenuity, Inability to find
the (Correct) answer
 
-
 
-
 
उत्तरस्याप्रतिपत्तिरप्रतिभा । न्या. सू. 5/2/19.
उत्तरापरिस्फूर्त्तिरप्रतिभा - न्या. च. । कथामभ्युप-
गम्य तूष्णीम्भावोऽप्रतिभा वादिप्रतिवादिनो-
र्निग्रहस्थानम् – न्या. सा. । वादिनोक्तस्य स्वेन
चानुभाषितस्य वाक्यार्थस्स प्रतिषेधरूपमुत्तरं