This page has not been fully proofread.

20 न्यायपारिभाषिकशब्दावली
 
अनित्यसमः
 
अर्थान्तरम्
 
ins
 
अविज्ञातार्थम्
 
1.S.C
 
-non
 
fhm
 
-
 
रनुपलब्धिसमः । न्या. सू. 5/1/29 उपलब्धेर-
पलापविषयकत्वकल्पनेन प्रत्यवस्थानम् - न्या.
च.। स्वस्मिन् विषयिधर्माणं तदतद्रूपकल्पनात् ।
विपर्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धितः ॥ ता. र.
 
का. - 26 ।
 
Balancing the Non-eternal
 
साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद-
नित्यसमः। न्याय सू. 5/1/32. साधर्म्येण वैधर्म्येण
वा वादिना साध्योपसंहारे कृते तत्प्रतिवन्द्यभिप्रायेण
साधर्म्यादिना सर्वस्यापि साध्यधर्मवत्तां प्रदर्श्य
विपक्षस्यापि सपक्षत्वापादनमनित्यसमः - ता. र.
सा. सं. । साधर्भ्यादेर्विपक्षाणां सपक्षत्वप्रसञ्जनम् ।
साधनप्रतिवन्द्या यत् स ह्यनित्यसमोदयः ॥ ता. र.
का - 27 । विपक्षस्यापि पक्षत्वापादनतात्पर्यक-
प्रत्यवस्थानम् – न्या. च. ।
 
-
 
Shifting the topic, Irrelevancy
प्रकृतादर्थादप्रतिसम्बद्धार्थमर्थान्तरम् । न्या.सू.
5/2/7. प्रकृतात् प्रस्तुतादर्थात् साध्यसाधनात्
तदूषणाद् वा यदर्थान्तरं प्रकृतेनासंबद्धार्थम-
नुपयोगि, तदर्थान्तरं नाम निग्रहस्थानम् -न्या. सा.
प. प.। प्रकृतानुपयुक्तोक्तिरर्थान्तरमितिस्थितिः
 
ता. र. का - 6 । प्रक्रान्तस्य साधनस्य दूषणस्य
 
-
 
वानुपयुक्तमनङ्गं यत् तस्य वचनमर्थान्तरम्
ता. र. सा. सं. । प्रकृतेनानभिसम्बद्धार्थवचन-
मर्थान्तरम् - त. भा. ।
 
The Unintelligible
 
परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमवि-