This page has not been fully proofread.

पुरोवाक्
 
उपाध्यायमहोदयानां सत्प्रेरणयो कार्यमिदं साधितमित्यतः तान्
प्रति सविनयप्रणामपूर्वकं कार्तज्ञ्यं वितरामि। यादवपुरविश्व-
विद्यालयस्य संस्कृतविभागाध्यक्षचरेभ्यः राष्ट्रपतिसम्मानितेभ्यः
प्रो. मानवेन्दुबनर्जिमहाभागेभ्यः कलिकाताविश्वविद्यालयस्य
संस्कृतविभागाध्यक्षचरेभ्यः राष्ट्रपतिसम्मानितेभ्यः प्रो. सीता-
नाथाचार्यमहोदयेभ्यो गुरुवरेभ्यश्च सप्रणामं कृतज्ञतां विज्ञापयामि ।
निरन्तरमाशीर्वादप्रदानपरायणेभ्यः तिरुपतिस्थराष्ट्रियसंस्कृत-
विद्यापीठस्य कुलपतिभ्यः प्रो. हरेकृष्णशतपथिमहोदयेभ्यः
विनतिपूर्वकं कार्तज्ञ्यं वितरामि । सम्पूर्णानन्दसंस्कृतविश्व-
विद्यालयस्य दर्शनसङ्कायाध्यक्षचरेभ्यः न्यायशास्त्रमर्मज्ञेभ्यः
प्रो. रामपूजनपाण्डेयमहोदयेभ्यः, काशीहिन्दूविश्वविद्यालयस्य
वैदिकदर्शनविभागे आचार्यपदमलंकृद्भ्यः न्यायवेदान्तशास्त्रमर्मज्ञेभ्यः
प्रो. राजारामशुक्लमहोदयेभ्यः पूज्यगुरुवरेभ्यश्च सश्रद्धं कार्तज्ञ्यं
व्याहरामि । शिलचरस्थासामविश्वविद्यालयस्य संस्कृतविभागाध्यक्षाः
प्रो. स्वप्नादेवीमहाभागाः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-
विद्यापीठस्य दर्शनसङ्कायाध्यक्षचरान् न्यायशास्त्रमर्मज्ञान्, प्रो.
चन्द्रशेखरशुक्लमहोदयान्, अस्य विद्यापीठस्य शोधविभागाध्यक्षान्
प्रो. रमेशकुमारपाण्डेयमहोदयान्, वर्तमानदर्शनसङ्कायाध्यक्षाः प्रो.
एस्. एन्. रमामणिमहाभागाः, अद्वैततत्त्वमर्मज्ञान् प्रो. शुद्धानन्द-
पाठकमहोदयान् सांख्यविभागाध्यक्षान् प्रो. महेशप्रसादसिलोड़ि-
महोदयान् दर्शनसङ्कायान्तर्गतान् आचार्यान् अध्यापकान् च प्रति
सश्रद्धं कार्तज्ञ्यं व्याहरामि । श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य
न्याथसाहित्यशास्त्रमर्मज्ञेभ्य: डॉ. कमलेशमिश्रमहोदयेभ्यः सप्रणामं
कृतज्ञतां विज्ञापयामि येभ्यः कर्मण्यस्मिन् मध्ये मध्ये शास्त्रीय-
V
 
-