This page has not been fully proofread.

iv
 
न्यायपारिभाषिकशब्दावली
 
-
 
निराकरणपूर्वकं महान्तमन्वर्थनामानं तत्त्व - चिन्तामणिग्रन्थं निर्माय
नव्यन्यायमार्गप्रवर्त्तकतया महर्षिकल्पा विरेजिरे । मणिग्रन्थे तावत्
प्राभाकरमीमांसकमतनिरासे महानादरो लक्ष्यते गङ्गेशोपाध्यायानाम् ।
 
ग्रन्थस्योपक्रमे उपाध्यायैः प्रतिपादितं यत् -
 
-
 
अन्वीक्षानयमाकलय्य गुरुभिर्ज्ञात्वा गुरुणां मतं,
 
शम
 
चिन्तादिव्यविलोचनेन च तयोः सारं वलोक्याखिलं ।
तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरु-
र्गङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् ॥

न्यायवैशेषिकनव्यन्यायशास्त्राणां वैशिष्ट्यं परिलक्ष्य तेषु
शास्त्रेषु ये पारिभाषिकशब्दाः विद्यन्ते, तेषां शब्दानाम् आङ्गलभाषायां
संस्कृतभाषायां च लक्षणपूर्वकमेकत्रोपस्थापनमेव लक्ष्यं येन
प्रेक्षावतामन्तेवासिनाञ्च महान् उपकारो भविष्यतीति मे
 
मे
 
मतिः ।
 
कृतज्ञताज्ञापनावसरेऽस्मिन् सर्वप्रथमं ग्रन्थस्यास्य प्रकाशनकार्ये
शुभाशीर्वादपुरःसरं विशिष्टशक्तिप्रदानाय परमेश्वरं विश्वेश्वरं
विश्वनाथं सश्रद्धं प्रणम्य भवानीवसन्तकुमाराभिधेयमातापितृचरणेषु
प्रणतिपूर्वकं कुसुमाञ्जलिं समर्पयामि । तदनन्तरं मयि सततं
स्नेहशीला आशीर्वादपरायणा ग्रन्थस्यास्य संरचनायां मार्गप्रदर्शकाः
राष्ट्रपतिसम्मानिता: न्यायशास्त्रमर्मज्ञाः परमपूज्यगुरुचरणा आचार्य-
वशिष्ठत्रिपाठिमहोदयाः शुभावसरेऽस्मिन् कृतज्ञेन मया नितरां
प्रणम्याः येषां सन्मार्गप्रदर्शनेन सम्पन्नमिदं कार्यं प्रकाशनाधिगतम् ।
आशीर्वादप्रदानेन मां तार्थयतां गुरुचरणानां नवदेहलीस्थ श्रीलाल-
बहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतीनां प्रो. वाचस्पति-
6.
 
तत्त्व चि.म. श्लो.
 
STRISIP