2023-02-26 00:33:36 by ambuda-bot
This page has not been fully proofread.
पुरोवाक्
iii
समवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसमिति" ।
न्यायदर्शने तावत् समेषां दुःखानामात्य- न्तिकीनिवृत्तिः मोक्ष इति ।
वैशेषिके च आत्मवृत्तिसमस्तविशेषगुणानां-विनाशे सति अपवर्गो
भवति। वस्तुतः पदार्थतत्त्वज्ञानान्मुक्तिरिति अनयोः दार्शनिकयोः
सिद्धान्तः। एवञ्च वैशेषिकदर्शनस्य इदमेव वैशिष्ट्यं यत् कणादनामा
चिरन्तनो महर्षिः योगाचारविभूत्या महेश्वरं तोषयामास । स च
महेश्वर उलूकरूपधारीपदार्थतत्त्वं तस्मै उपदिदेश। उपदिष्टं तत्त्वं
दशाध्यायीरूपेण सप्तत्युत्तरत्रिंशत्सूत्रसंदृब्धेन वैशेषिकशास्त्रेणाधि-
कारिणो व्युत्पादयामास कणभक्षः। अत एवेदं दर्शनमौलूक्यदर्शनमिति
व्यपदिशन्ति। इदं दर्शनं न्यायदर्शनस्य समानतन्त्रमिति व्यवहरन्ति ।
"वैशेषिकास्तु अस्मदीया एव" इति न्यायमञ्जरीकाराः जयन्तभट्टा
घोषयन्ति । वैशेषिकोक्तपरमाण्वादिकं नैयायिकाभिमतमेव । अत एव
निरवयवपरीक्षापि विहिता न्यायदर्शने । औलूक्यदर्शने अभिधानादेव
न्यायसूत्रे अनुक्तमपि मनसः इन्द्रियत्वं नैयायिकसिद्धान्त इति
व्यवस्थापयन्ति न्यायदर्शनटीकाकाराः। प्रत्यक्षमनुमानमिति द्वे प्रमाणे
स्वीकुर्वन्ति यद्यपि वैशेषिकाः, चत्वारि प्रमाणान्यभ्युपगच्छन्ति
तु नैयायिका इति अनयोर्दर्शनयोर्विमतिरस्ति तथापि सा बहुषु
संवाददर्शनात् न तयोः अत्यन्तविलक्षणतन्त्रतां प्रयोजयति । यतः
नैयायिकेष्वेव क्वचन प्रमेये विवाददर्शनेऽपि दर्शनभेदो नाभ्युपेयते
विद्वद्धिः । अतः कणाददर्शनं अक्षपाददर्शनकल्पम् । एवञ्च न्याय-
वैशेषिकदर्शनयो: समानतन्त्रत्वमभ्युपगत्य वैशेषिकाभिमतसप्तपदार्थ-
वादं च स्वीकृत्य त्रयोदशशतके गङ्गेशोपाध्यायाः स्वातन्ष्ठयेणाक्ष-
पादोपदिष्टस्य प्रमाणचतुष्टयस्य तत्त्वं मीमांसकप्राचीननैयायिकमत-
5. वै.सू. 1-1-4