This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली
 
साधु गौतम ! भद्रन्ते तर्केषु कुशलो ह्यसि ।
तामृते वादयुद्धेन को मां तोषयितुं क्षमः ॥
अनेन तव वादेन तोषितोऽहं महामुने ।
त्वन्नाम धारयिष्यामि त्वं त्रिनेत्रो भविष्यसि ॥
इत्येवं ब्रूवतः शम्भोर्जजृम्भे वाहनो वृषः ।
दर्शयन् दन्तलिखितान् प्रमाणादींश्च षोडश ॥
शम्भोः कृपामनुप्राप्य यदीक्षामकरोन्मुनिः ।
तेन चान्वीक्षिकीसंज्ञां विद्यां प्रावर्त्तयत् क्षितौ ॥
आदेशेन शिवस्यैव स शिष्यान् दशभिर्दिनैः ।
पाठयामास तां विद्यां नास्तिक्यमतनाशिनीम् ॥ 2
गौतमस्य अक्षपादत्वे प्रमाणं प्रदर्शयति पुराणं यथा-
ii
 
TE
 
गौर्वाक् तयैव तमयन् परान् गोतम उच्यते।
गोतमान्वयजन्मेति गौतमोऽपि स चाक्षपात् ।
तत्र अक्षपादगौतमस्य लक्ष्यं न केवलं मानवानामपि
कीटपतङ्गादीनामासीदिति । "उद्देश्यता तु कीटपतङ्गादीनामपि "
सूत्रकारस्य मतपोषणाय नव्यनैयायिकाः तत्त्वचिन्तामणिकाराः
निगदितवन्तः "अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टादशविद्या-
स्थानेषु अभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय"
वैशेषिकदर्शनस्यापि मुख्यं लक्ष्यं निःश्रेयसमेव । उक्तं सूत्रकारेण
महर्षिणा कणादेन – "धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेष-
2.
 
3.
 
4.
 
देवीपुराणम्-शुम्भनिशुम्भमथनपाद अध्याय - 16
दे.पु. अध्याय - 13
 
प्रामाण्यवादे
 
SAINT
 
By
 
FOR THE
 
-