This page has not been fully proofread.

ग्रन्थकार–परिचय:
 
पुस्तकस्यास्य कर्त्ता पं. श्रीवसन्तकुमार-
महापात्रस्य सुपुत्र: डॉ. विष्णुपदमहापात्रः
आकाशदिवसग्रहब्रह्मतमे आङ्ग्लसम्वत्सरे
(ई.वी. १९७०) नवम्बरमासे वायुपक्षदिवसे
(२५) पश्चिमवङ्गप्रदेशे पूर्वमेदिनीपुरमण्डले
साहाड़ाग्रामे लब्धजनिः श्रीजगन्नाथपुरी-
वाराणस्यादिषु नव्यन्यायदर्शने प्राप्तोपाधिको
दर्शनेषु रुचिमान् वाराणसीस्थ सम्पूर्णानन्द-
संस्कृतविश्वविद्यालयादाचार्यवशिष्ठत्रिपाठिनां
मार्गदर्शनेऽधिगतविद्यावारिध्युपाधिः
 
सम्प्रति
 
दिल्लीस्थ श्रीलालबहादुरशास्त्रीराष्ट्रिय संस्कृत-
विद्यापीठे वरिष्ठप्रवक्ता । शब्दशक्ति-
प्रकाशिकासमीक्षणम्, विवृतिसहितं तर्कामृतम्
इति पुस्तकद्वयं प्रकाशितम् । विविधपत्रिकासु
पञ्चविंशत्यधिकाः शोधनिबन्धाः प्रकाशिताः ।
"पञ्चटीकोपेतः शक्तिवाद: " (सम्पादनम्),
"व्याकरणप्रकाशः" इति
 
ग्रन्थद्वयमस्य
 
मुद्रणपथमापन्नं नचिराद् विदुषां पुरस्तात् स्वरूपं
प्रकाशयिष्यतीति।
 
• ISBN 978-81-89149-43-7