This page has not been fully proofread.

ily fangas
(1
(JPIS
 
1.
 
अडी
 
॥ ॐ॥
पुरोवाक्
 
p
 
हवाएं
 
इह निखिलप्रपञ्चे समेषां शास्त्रकाराणां दार्शनिकानां मुख्यं
लक्ष्यं निःश्रेयसम्। तच्च तत्त्वज्ञानमन्तरा नैव सम्भवति, अतः
एव तत्त्वज्ञानावाप्त्यर्थं दार्शनिकानां प्रवृत्तिः । भारतीयदार्शनिकेषु
आन्वीक्षिकीशास्त्रस्य कर्त्ता महर्षिगौतमः तादृशलक्ष्यतत्त्वमुररीकृत्य
पदार्थविभागमुखेनैव आदौ सूत्रयामास । तथाहि- "प्रमाण-प्रमेय -
संशय-प्रयोजन- दृष्टान्त-सिद्धान्ताऽवयव-तर्क - निर्णय - वाद- जल्प-
वितण्डा - हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निः
श्रेयसाधिगमः"इति न्यायसूत्रकारस्य वैशिष्ट्यविषये इत्थं श्रूयते-
भो मुने वेदधर्मज्ञः किं तूष्णीमास्यते चिरं ।
मामनिर्जित्य मेधाविन् क्षुद्रनास्तिकबालकम् ॥
कथन्तु विदुषो वृद्धान् नास्तिकान् लोकसम्मतान्।
विजेष्यसि महायुद्धे तत्पालयस्व माचिरम् ॥
 
न्या. सू. 1/1/2