This page has not been fully proofread.

डॉ० कमलेशमिश्रः
वरिष्ठोपाचार्यो विभागमुख्यश्च
स्नातकोत्तरन्यायवैशेषिकविभागस्य
 
श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य
श्रीविहारस्य, पुरीस्थस्य (ओडिशा)
 
शुभाशंसनम्
 
तपः पूतानां कीर्त्तितकीर्त्तिग्रामाणां लब्धराष्ट्रपतिपुरस्काराणां
विद्याविद्योतितात्मनां न्यायकेशरिणामाचार्यवशिष्ठत्रिपाठिमहोदयानां
योग्यच्छात्रेणाधिगतन्यायविद्येन दर्शनशास्त्रविशारदेन वरिष्ठप्राध्यापक-
महोदयेन डॉ० विष्णुपदमहापात्रेण विरचितं न्यायपारिभाषिक-
शब्दावली नामकं तत्त्वगर्भं ग्रन्थरत्नं पठित्वा अहममन्दमानन्दमनुभवामि ।
गहनगिर आक्षपादीर्गुरुकरुणया विद्यातपसा च समधिगम्य अनेन
एतद्ग्रन्थरचने यत्पाटवं प्रदर्शितं तदतीव कौतुकावहं सहृदयश्लाघ्यम् ।
 
पारिभाषिकशब्दानां परिचितिमन्तरेण न प्रसरति न्यायसरस्वती ।
शास्त्रीयतत्त्वानां सूक्ष्मातिसूक्ष्मालोचनार्थं न्यायविद्या अपरिहार्येति वदन्ति
सहृदयधुरीणा विचक्षणाः । एतद्ग्रन्थविरचनेन दुरुहोऽपि न्यायविषयो
बहुनाऽऽयासेन स्फुटो भवति । अस्य महार्हग्रन्थस्याध्ययनेन जिज्ञासूनां सर्वेषां
सुखबोधो भवेदित्यत्र नैव सन्देहः।
 
वैदुष्यसम्पन्नस्य श्रीमतो विष्णुपदमहापात्रमहोदयस्यास्य इयं
कृतिरक्षयकीर्त्तिं प्राप्स्यतीति मे दृढात्मप्रत्ययः । प्रभुनीलाद्रिनाथ:
श्रीजगन्नाथः शास्त्रनिष्णातस्यास्य कीर्त्तिमायुष्यमारोग्यञ्च विदधातु इति
मे प्रार्थना ।
 
Kama lish Mishne
(डॉ० कमलेशमिश्रः)