This page has not been fully proofread.

136 न्यायपारिभाषिकशब्दावली
 
साध्यता
 
noibs
 
साध्यतावच्छेदकः
 
-
 
moltalanilne nobals
 
साध्यतावच्छेदकसम्बन्धः
 
-
 
स्वरूपसम्बन्धत्वम् – स. भा. पृ० 4 । "अयोग्यो
यो विशिष्टायाः प्रतीतेर्जनने सदा । स स्वरूपो हि
सम्बन्धो योगान्तरेण विश्रुतः ॥ स. भा. का. 34।
अभावादे सम्बन्धः स्वरूपसम्बन्धः । यथा भूतले
घटो नास्ति" इत्यादौ भूतले घटाभावस्य स्वरूप-
सम्बन्ध: प्रतीयते। स्वरूपसम्बन्धैव विशेषणता इति
नामान्तरम्। न. न्या. भा. प्र. पृ० 2 ।
Inferredness
 
विषयताविशेषः। तच्य पञ्चावयवसाधनीयत्वम्।
यथा - पर्वतो वह्निमान् धूमादित्यादौ वह्नेः साध्यत्वम् ।
न्या. को. पृ. - 1002 । पर्वतो वह्निमान् धूमादित्यत्र
वह्नित्वविशिष्टं साध्यं, वह्नित्वं साध्यतावच्छेदकं,
वह्नित्वावच्छिन्ना साध्यता - तर्क. सर्व. पृ० 21 ।
 
Limitor of inferredness
 
येन धर्मेण सम्बन्धेन वा साध्यतावच्छिद्यते स
साध्यतावच्छेदकः। पर्वते संयोगसम्बन्धेन वह्नेः
साधने पर्वतेः संयोगेन वह्निमान् इत्यादौ वह्नित्वं
संयोगश्च साध्यतावच्छेदकः । न्या. द. वि. ।
यद्धर्मविशिष्टं साध्यंभवति स धर्मः साध्य-
तावच्छेदकः - तर्क सर्व पृ० 21 । यो धर्मः
साध्यादौ विशेषणतया प्रतीयते, स धर्मः साध्यता-
दीनामवच्छेदको भवति । न. न्या. भा. प्र. पृ० 7 ।
 
-
 
Limitor of inferredness relation
 
येन सम्बन्धेन यत्साध्यते स सम्बन्धस्साध्यता-
वच्छेदकसम्बन्धः। न. न्या. भा. प्र./ तर्क. सर्व ।
 
-