This page has not been fully proofread.

प्रो० शुद्धानन्दपाठकः
अद्वैतवेदान्तविभागाध्यक्षचरश्च्छात्रकल्याणसंकायप्रमुखश्च
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठस्य
 
(मानितविश्वविद्यालयस्य)
नवदेहलीस्थस्य ।
 
मान
 
शुभाशंसाणकारी
 
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठमित्यभिधेये,
नवदेहलीस्थे जनविश्रुते मानिते विश्वविद्यालये न्यायविभागे सहाचार्यपदं
समलङ्कुर्वद्भिः नैकशास्त्रतात्पर्यावधारणेऽप्रतिमपाटवमुपकल्पयद्भिः
सततशास्त्रचिन्तनप्रकल्पितमतिभिः श्रीमद्भिः श्री विष्णुपदमहापात्रेत्य-
भिधानवद्भिः अपश्चिमविपश्चिद्भिः उपज्ञातोऽयं "न्यायपारिभाषिक-
शब्दावली" इति नामाख्यो ग्रन्थः कस्य सुधियः चित्तं नावर्जयतीति न
जाने । अत एव नितान्तं प्रसीदति मम स्वान्तम् । इदं कस्य नाविदितं
यत् कस्याऽपि शास्त्रस्य गहनार्थावधारणे तत्र प्रविष्टा नैजी-पदावली
(पारिभाषिकी-पदावली) अनितरसाधारणकारणत्वं भजते । अतस्तज्ज्ञान-
मन्तरा तच्छास्त्र प्रवेशः न कठिन अपितु असम्भव एव । तदेव सुधियां
छात्राणाञ्चोपकाराय महार्घत्वमवधारयति ग्रन्थरत्नमिदम् ।
 
ग्रन्थोऽयम् न्यायशास्त्रान्तःप्रविष्टपदानाम् ऋज्वीं झटिति-
भावगम्याम् अपरिचितस्यापि बालस्योपकारिकां काञ्चिदपूर्वां व्याख्या-
मुपादाय स्वकीयमपि अपूर्वत्वमुपकल्पयति । अकारादिक्षान्तावधारितां
श्रीमातृकामवलम्ब्य सुगुम्फितोऽयं ग्रन्थः पुरुषार्थचतुष्टयप्रसूतिमपि सूते ।
तदेवोक्तं केनचिद् "प्रणमामि महादेवीं मातृकां परमेश्वरीम्" इत्यादि ।
 
श्रीमहापात्रप्रणीतेऽत्रग्रन्थे व्याख्यातानि पारिभाषिकपदानि न
केवलं संगृहीतानि अपि तु आङ्ग्ल भाषयाऽनूद्य तथा विधानामपि उपकारं
जनयन्ति ये संस्कृतं, न्यायादिच्छास्त्रं वा नाधिकमवमच्छन्ति, अतः