This page has not been fully proofread.

86 न्यायपारिभाषिकशब्दावली
 
की
 
TERS
 
F5shop mp
 
जिश्रि
 
की
 
घटः । अत्राभावनिरूपिता प्रतियोगिता वर्तते ।
प्रतियोगिता अखण्डोपाधिरूपा इत्यपि केचित् ।
अन्योन्याभावविरहात्मत्वं प्रतियोगिता इति उपस्कार-
कारः।अभावविरहात्मत्वं वस्तुनः प्रतियोगिता (न्या.
 
कु. तृ. स्त. -2) इति उदयनाचार्याः । तथा च
अभावाभावरूपत्वं प्रतियोगित्वमिति । घटाभावा-
भावो घटस्वरूपः। तद्रूपत्वमेव घटे वर्तमानं
प्रतियोगित्वमिति तन्मतम् । वस्तुतोऽत्र विरहपद-
स्यार्थो "ज्ञानप्रतिबन्धकज्ञानविषय:"। (अनु. चि.
दी. पूर्वपक्षप्रकरणम्) अत एव स्वाभावज्ञान-
1. प्रतिबन्धकज्ञानविषयत्वमेव प्रतियोगिताया लक्षणम् ।
यस्याभावः तत्त्वं प्रतियोगित्वमिति सामान्यजनाः।
तद्वित्तिवेद्यत्वं तत्प्रतियोगित्वमिति मणिकारः । इदं
च लक्षणं सर्वासु प्रतियोगितासु घटते । अभावज्ञान-
वेद्यत्वं घटे वर्त्तते - न्यायायनम् पृ०- 17।
 
प्रतियोगितावच्छेदकम् – Limitor of adjunctness
 
दण्डस्य अभावत्वे विवक्षिते दण्डे प्रतियोगिता-
अस्तीति कृत्वा दण्डत्वं दण्डस्य प्रतियोगिता-
वच्छेदकम्। न्या. द. वि. । येन रूपेण धर्मेण
यस्याभावादौ प्रतियोगिता बोध्यते स धर्मः प्रति-
onwitieosimयोगितावच्छेदकः । यथा घटाभावे घटस्य घटत्व-
रूपेण प्रतियोगिता, अतो घटत्वं प्रतियोगिता-
वच्छेदकम् । प्रतियोगितावच्छेदकोऽपि सम्बन्धो
भवति । स च येन सम्बन्धेन प्रतियोगिताया अभावांशे
भानं तादृशः सम्बन्धः । यथा संयोगेन घटो
नास्तीत्यत्र संयोगेन घटस्याभावांशे प्रतियोगिता-
भानमिति तत्र संयोगसम्बन्धः प्रतियोगिता-
me
FOR 150